SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः त्रित्रिकोणं च नवमं त्रिकोणे नव पंचमे । सप्तमं काम जामित्र द्युनद्यूनास्तसंज्ञकम् ॥ १५ ॥ व्याख्या-5 -कामेत्यादि कामो मदनः, जामित्रशब्दो विवाहपर्याय: जामिं भगिनीं वायतिः स्वज्यतीति कृत्वा । तथा सर्वोऽपि ग्रहो यस्मिन् राशावुदितस्तस्मारसप्तमेऽदर्शनं याति ततोऽस्तसंज्ञा ॥ स्यातां तृतीये दुश्चिक्यविक्रमे पञ्चमे तु धीः । मध्य मेषूरणव्योमान्याहुर्दशमधामनि ॥ १६ ॥ · व्याख्या इह किल तुर्यस्य पातालाम्बुसंज्ञे दशमस्य मध्यव्योमसंशे च भूगोलकल्पनयेत्यू, भूगोलमते झर्कः प्रातः प्राच्यामुदीय प्रदक्षिणं भ्रमन्मध्याह्ने दशमधामनि व्योममध्यमागत्य सायं सप्तमेऽस्तमेति, तथैव च रात्रावपि भ्रममध्यरात्रे तुर्यधाम्नि पाताले भूत्वा पुनः प्रातः प्राच्यामुदेतीत्याहु: । पातालं च स्वभावादम्बुस्थानमिति प्रतीतमेव .66 ६६ उपान्त्यं ११ सर्वतोभद्रमन्त्यं १२ रिष्पमुदीरितम् । वदन्त्युपचय हाँस्त्रिवद्दशैकादशान् पुनः ।। १७ ।। " व्याख्या - उपान्त्यमेकादशं सर्वतोभद्रमिति तत्रस्थग्रहस्य सर्वथाऽपि शुभस्वात् । अस्य द्वादशं रिपशब्दः पकारोपान्त्यः । उपचयेत्यादिलमाचन्द्राच्च त्रिपडादिस्थानान्युपचय संज्ञानि यत एषु स्थितः पापग्रहोऽपि शुभफलप्रदः स्यात् शेाणि स्वपचयाह्नानीत्यर्थालभ्यते । प्रयोजनं दिवई " कार्य यदुक्तं तदुपैति सिद्धि वारे ग्रहे चोपचयर्क्षभाजि । नीचर्क्षसंस्थेऽपचयस्थिते च यत्ने कृते चापि भवत्यसाध्यम् ॥ १ ॥ केन्द्रचतुष्टयकंटकनामानि वपुः १ सुखा ४ स्त ७ दशमानि १० । स्युः पणफराणि परत २-५-८ ११ स्तेभ्योऽयापोक्किनानीति ३-६-९-१२ ॥१८॥ Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy