SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ४८ आरम्भ-सिद्धिः एषां फलं नामभिरेव व्यञ्जितमिति न पृथक् प्रतन्यते । केचित् प्राजापत्य १ सुरोत्तम २ मनोज्ञादिषट्कट शूल९ गजानां १० क्रमेण धूम्र १ प्रजापति२ मानस३ पद्म४ लंबको५ स्यात६ मृत्यु७ काण८ शुभ९ गद १० संज्ञाः प्राहुः | उपयोगसंज्ञा चान्वर्था अमीषां विष्कंभाथहर्योगसमीप एव सदाभावात् ॥ कुयोगेष्वपवादमाह - यत्प्रातिकूल्यं वाराणां तिथिनक्षत्रसंभवम् । हूणवंगखसेष्वेव तत्त्यजेदिति केचन ॥ ६७ ॥ व्याख्या – तिथिसंभवं यथा संवर्तककर्कयोगादौ । नक्षत्रसंभवं यथा उत्पातमृत्युकाणोपयोगादौ । हूणाद्या देशविशेषाः । केचनेति अयं भाव:एकान्तिककार्यं विना शेषेष्वपि देशेष्वेते त्याज्याः ॥ शुभाशुभयोगसंकरे शुभयोगबलमाह सिद्धियोगः कुयोगश्च जायेतां युगपद्यदि । कुयोगं तत्र निर्जित्य सिद्धियोगो विजृम्भते ॥ ६८ ॥ व्याख्या— यौगिकनामाश्रयणाच्छुभयोगः सर्वोऽपि सिद्धियोगशब्देनात्र प्राः ॥ अथ दिनयोगानाह विष्कंभः १ प्रीति२ रायुष्मान् ३ सौभाग्यः ४ शोभन५ स्तथा । अतिगंडः ६ सुकर्मा७ च धृतिः८ शूलं९ तथैव च ॥ ६९ ॥ गंडो १० वृद्धि ११ व १२ चैव व्याघातो १३ हर्षण १४ स्तथा । वज्रं १५ सिद्धि१६ वर्व्यतीपातो १७ वरीयान् १८ परिघः १९ शिवः२० ॥ ७० ॥ सिद्धः २१ साध्यः २२ शुभः२३ शुक्लो२४ ब्रह्मा२५ चैन्द्रो२६ऽथ वधृतः २७ । Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy