SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 36 आरम्भ-सिद्धिः " धनिष्ठा धननाशाय प्राणघ्नी शततारका । पूर्वायां दंडयेद्राजा उत्तरा मरणं ध्रुवम् ॥ १ ॥ अग्निदाहश्च रेवत्यामित्येतत्पश्चके फलम्" इति मृतकार्यमिति मृतक्रिया काऽपि न कार्या यदि कश्चिदकस्मात् पञ्चके मतस्तदा छेदनसहितं करचरणबन्धनं तस्य कुर्यादिति लल्लः । तद्दहनविधिस्त्वयं गरुडपुराणे-"दर्भमयाश्चत्वारः पुत्तलकाः कृत्वा शबपार्श्वे स्थाप्याः, तेन सहैव च दहनीयाः, अन्यथा पुत्रगोत्रादीनां प्रत्यवायः स्यात् ॥ पञ्चकं श्रवणादीनि पञ्च ऋक्षाणि निर्दिशेत् । केचित्पुनर्धनिष्ठादिपञ्चकं पञ्चकं विद्धः॥ ५८ ॥ व्याख्या-नारचन्द्रे तु श्रवणरेवत्योः सर्वदिग्गमनमनुमन्यमानेन दक्षिण दिग्यात्राऽप्यनुमेने । तथाहि " सर्वदिग्गमने हस्तः श्रवणं रेवतीद्वयम् । मृगः पुष्यश्च सिध्ध्यै स्युः कालेषु निखिलेष्वपि " ॥ १ ॥ यमलादीनां संज्ञाः सान्वर्था इत्याहहानिवृध्ध्यादिकं सर्व योगे स्याद्यमले द्विशः। त्रिशस्त्रिपुकराख्ये तु पञ्चशः पञ्चकेऽपि च ॥ ५९ ।। व्याख्या-एविष्टमेव कार्य कार्य न त्वनिष्टमित्याशयः ॥ गंडान्तं च त्यजेत्त्रेधा लग्न ४-८-१२ तिथ्यु ५-१०-१५ डुषु ९-१८-२७ त्रिषु ! प्रत्येकं त्रित्रिभागान्तरर्धे १ कर द्विघटी ३ मितम् ॥६॥ व्याख्या-त्यजेदिति जन्माधानयात्रोद्वाहवतगृहनिवेशप्रवेशक्षौरादिसर्वकायेष्वशुभो गंडान्त इति भावः । वेधेति लग्नगंडान्तः १, तिथिगंडान्त: २, नक्षत्रगंडान्त ३ श्वेति । कथमित्याह-त्रित्रिभागान्तरिति तृतीयस्तृतीयो भागस्त्रित्रिभागः, मयूरव्यंसकादित्वात्तीयप्रत्ययलोपः तत्सन्नियोगजतृआदेशनिवृत्तिश्च, Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy