SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः व्याख्या -क्षणा मुहूर्त्ताः । ऐन्द्रं ज्येष्ठा । रौद्रमार्द्रा । वायव्यं स्वातिः । सामश्लेषा । अन्तकं भरणी । वारणं शतभिषक् । एतानि षड्भानि पञ्चदशमुहूर्त्तान्यर्धदिन भोगानीत्यर्थः । त्रिघ्नानिति एवं पञ्चदश त्रिगुणाः पञ्चचत्वारिंशत्, अदितिभं पुनर्वसु षड्भानि पञ्चचत्वारिंशन्मुहूर्त्तानि सार्धंदिन भोगानि । शेषापयश्विनी १ कृतिका २ मृगशिरः ३ पुष्य ४ मघा ५ पूर्वफाल्गुनी ६ हस्त ७ चित्रा ८ ऽनुराधा ९ मूल १० पूर्वाषाढा ११ श्रावण १२ धनिष्ठा १३ पूर्वभद्वापदा १४ रेवत्या १५ ख्यानि पञ्चदश भानि त्रिंशन्मुहूर्त्तानि एकदिन भोगानि । एषां किल चिरंतनज्योतिःशास्त्रेष्वेवं भुक्तिरासीन्न तु यथाऽधुना सर्वाण्यप्येकदिनभोगानीति श्रीमदावश्यक बृहद्वृत्तिटिप्पन के, एषां नव्योदितचन्द्रदर्शनादावुपयोगः । तथाहि ३० "बृहत्सु४५ धान्यं कुरुते समघं, जघन्य १५ धिष्ण्येऽभ्युदिते महार्घम् । समेषु ३० धिष्ण्येषु समं हिमांशुः शुक्ल द्वितीयाभ्युदयी विलोक्यः ॥ इति रत्नमालायां । अत्राभ्युदित इति यन्नक्षत्रस्थश्चन्द्रो हग्गोचरीस्यात्तन्नक्षत्रं बृहदादि विचार्यमिति तद्भाष्ये । विशेषास्तु (6 युज्यन्ते षड् द्वादश नव चेति निशाकरेण धिष्ण्यानि । प्राङ्मध्यपश्चिमाघैः पैौष्णैशास्त्रण्डलादीनि ” ॥ १ ॥ " अत्र पौष्णेति रेवत्यादिषड्भानि पूर्वभागयोगीनि चन्द्र एतान्यप्राप्तो भुङ्क्त इत्यर्थः । ऐशेति आर्द्रादिद्वादशभाति मध्यभागयोगीनि एषां समेनेन्दुना भोगः स्यात् । आखण्डलेति ज्येष्ठादिनवभानि पश्चिमार्धयोगीनि चन्द्रस्य पृष्ठतो योगीनि चन्द्र एतान्यभिक्रम्य भुङ्क्ते पृष्ठं दत्वा भुङ्क्ते इत्यर्थः । प्रयोजनं तु" पूर्वार्धयोगिषूढस्त्रीणामतिवल्लभो भवेद्भर्ता । पश्चार्धयोगिषु स्त्रीप्रेम मिथो मध्ययोगिषु " ॥ २ ॥ अन्यत्रापि सेवामैत्र्यादाविदं योज्यं कथं ? पूर्वभागयोगिषु : सेवामैध्याद्यारंभे यो मुख्यः स गौणस्य भृशं प्रियः स्यात् पश्चार्धयोगिषु तु मुख्यस्य गौणः, मध्ययोगिषु मिथः प्रीतिरिति । तथा- , Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy