SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः तस्मादूनं कार्यं, एवं स्पष्टं दिनमानमायाति, तस्मिन् षष्टिघटीरूपाहोरात्रमध्याच्छोधिते शेषं स्पष्टं रात्रिमानं । अनयोश्च कुलिकस्पष्टीकरणादावुपयोगः । यथाऽन मेगमनादनु सदशेऽह्नि प्रातस्त्यघटी १३ पल ३२ समये “ स्फुटोऽथ भानुः" इत्यादिकरणेन सञ्जाताः स्फुटार्कभुक्तभागाः १६ कलाः ३ विकलाः ३० । एतन्मध्येऽयनांश १५ कला ३४ क्षेपे जातं राशिः १ भागः १ कला: ३७. विकलाः ३० । अत्र सायनार्केण मेषराशिः पूर्णोऽपि भुक्तो वृषस्य चैकोशः १ कलाः ३७ विकलाश्च ३० भुक्का इत्यागतं, ततोऽत्र वृषराशिसत्का दिनवृद्धिः पल २ अक्षर ५२ रूपा गता, ततोऽंशाद्यङ्का गोमूत्रिकारीत्या स्थानद्वये न्यस्य एकत्र द्विकेन अपरत्र द्वापञ्चाशता च गुण्यन्ते स्थापना । २-५२ गुणिते च २-७४-६० । ५२-१९२४-१५६० जातं क्रमात् | सर्वाधःस्थस्य ६० भागे लब्धं २६, इदमुपरिस्थे क्षिप्तं जातं, १९५०, इदं चाधराश्येधः स्थान ६० रूपेण सह समपक्तिस्थत्वात् मीलितं जातं २०१० । अस्य ६० भागे लब्धं ३३ उपरि क्षिप्तं जातं पलादि ८५ एतन्मध्ये आद्यराशिसत्कः ७४ रूपोऽङ्कः समपङ्क्तिस्थत्वात् क्षिप्तो जातं १५९ । अस्य ६० भागे शेषं अक्षराणि ३९, लब्धं पले २ उपरि क्षिप्तं जातं पलानि ४ । अस्य ६० भागे लब्धं घटीस्थाने शून्यं । स्थापना- | घटी० पलानि ४ अक्षराणि ३९, इदं वृषाचार्माने घटी ३१ पल ४६ रूपे क्षिप्तं जातं घट्यः ३१ पलानि ५० अक्षराणि ३९ इदं स्पष्टं तद्दिनमानं । तद्वाशिमानं तु घट्यः २८ पलानि ९ अक्षराणि २१ । भथेतो मध्यच्छायानयनं यथा " << २५६ 3 ज्येष्ठदिनाद्दिनं शोध्यं शेषाद्दशगुणात् स्वतः । त्यजेत्सप्तशरै ५७ र्लब्धं सूर्ये १२ मध्याह्नयः स्मृताः ॥ १ ॥ व्याख्या – इष्टाहर्मानं ज्येष्ठाहमीनाच्छोभ्यते, शेषं दशभिर्गुण्यते, तत स्वत इति तदेवाधो न्यस्य ५७ भागे यल्लभ्यते तन्मुख्याङ्कात् कर्त्यते, भागाप्राप्तौ यदि ५७ अपेक्षयोर्ध्वस्थोऽङ्कोऽर्धाधिकः स्यात्तदा रूपं गृहीत्वा मुख्याङ्कात् कर्ण्यते, तदनु तस्य सूर्ये १२ भीगे यल्लभ्यते ते मध्याह्नच्छायायां पादाः शेषा गुलानि । यथाऽत्र तद्दिनमानं ज्येष्टाद्दर्मानात् घटी ३३ पल ४८ रूपाच्छोधितं जातं घटी १ पलानि ५७ अक्षराणि २१, इदं शेषत्वादशभिः सगुण्या षष्टा भक्त्वा भक्त्वा उपरि क्षेपे जातमधः ३३ ऊर्ध्वं च १९ । अस्य स ५७ भागो नाप्यते, नापि ५७ अपेक्षयाऽस्यार्धाधिक्यं ततस्तत्प्रक्रियामकृत्ववैकोनविंशतेः १२ भागे लब्धं पदं १, शेषमङ्गुलानि ७ व्यङ्गुलानि ३३, इयं तहिने मध्याह्नच्छाया । अथेत इष्टकालच्छाया " Aho ! - Shrutgyanam "
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy