________________
आरम्भ-सिद्धिः
योऽपरग्रन्थेष्वतिविप्रकीर्णया लौकिकलोकोत्तरकर्मगोचरज्योतिर्वक्तव्यतयाऽत्यन्तमायास्यमानं गणकगणमालोक्य तदुपकाराय सदोपयोगिसदर्थकुत्रिकापणकरणिमेतं प्रन्थमग्रन्थयन् । तैश्च मैतत्पाठिनां खंडखंडं पाण्डित्यं भूदिति सर्वकर्मालङ्कर्मी. णतां स्वकृतेराधातुं कानिचित्सावद्यान्यपि कर्माण्यशेषनिबद्धानि अस्माभिरपि च धर्येषु कर्मसु एकान्ताभ्युदयमेव केवलमिच्छुमिस्तन्मुहूर्तेषु तल्लग्नेषु च बहुज्योतिर्विद्विवादापनगुणदोषनिर्णय स्फुटीकतुं बहुबहुज्योतिषाभिप्रायोपादानपूर्वमेतद्वार्तिकं कुर्वद्भिः सद्भिः पूर्वोक्तहेतोरेव तान्यपि व्याख्यास्यन्ते, परं सदसद्विवेकप्र. वेकैश्छे कैस्तानि निरूपणीयान्येव न पुनः सावधप्रवृत्तेभ्यः प्ररूपणीयानि । यदुक्तम्
" यदेव साधक धर्म तद्वक्तव्यं वचस्विना । न त्वीषदपि बाधाकृदेषैव हि वचस्विता " ॥ १ ॥
ननु किं तर्हि तेषां ग्रन्थे ग्रथनस्य फलं ? इति चेदुच्यते-ज्ञप्तिरेव । ननु ज्ञप्तिः क्रिययैव फलवती, तद्वन्ध्या तु सा वन्ध्यार्जुनीव नार्जनीया । सत्यं, परं न केवलं क्रिययैव ज्ञप्तिः फलवती किंत्वकृत्येष्यक्रिययाऽपि, अन्यथा चौर्यपरनार्यादिपातकवेदितुर्विवेकिनः स्वज्ञप्तिसफलीकरणार्थ तरिक्रयास्वपि प्रवृत्तिः प्रसज्येत, ततोऽत्रापि सावधप्रवर्तनापरिहारेणैव तज्ज्ञप्तेः फलवत्त्वमुपकल्पनीयं । अत एवोच्यते
ये सुविहिताः पदस्थाः प्रौढाः सावधवचनतो विरताः ।
तेषामेव ग्रन्थः सदाऽयमुपयोगितां लभताम् ॥ १ ॥ इति . अपि च श्रीजिनशासनप्रभावनादिविशेषफललाभापेक्षया क्वचिदपवादप. देन सावद्यकर्मप्ररूपणाया अप्यागमेऽनुज्ञातत्वात्समयविशेष सावद्यकर्ममुहूर्तादिज्ञप्तेरप्युपयोग इत्यलं विस्तरेण । अथ प्रकृतं प्रस्तूयते
तत्वार्थमेव वक्ष्ये कचन विशेषं च सोपयोगमिह । तत्तदनुसारतोऽक्षरघटना सूत्रे स्वयं कार्या ॥ १ ॥
Aho! Shrutgyanam