SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ " पञ्चमो विमर्शः ग्रहाणामुदयास्तभवनप्रकारस्स्वयं 59 सूर्या: १२ सप्तदश १७ त्रिभूपरिमिता १३ रुद्रा ११ नवा ९ ब्धीन्दवः १४, कालांशाः शशिनोऽनृजोईगुरुणः काव्यस्य मन्दस्य च ॥ १ ॥ अयं भावः - चन्द्रादिग्रहाणां खेरेतावत्रिंशांशमध्यागमनेऽस्तमयः स्यात्, अन्यथा तूय एवेति खण्डखाद्यभाष्यादौ । अस्तं वाप्ते इत्युपलक्षणं, तेन पोऽशपो वा यदि क्राग्रहयुतः क्रूरदृष्टो वा स्यात्तदाऽप्यशुभं लग्नं । जीवे शुक्रे वाऽस्तमिति, यल्लल्लः 1 " अस्तमिते भृगुतनये नारी म्रियते बृहस्पती पुरुष......." इति ॥ केऽप्याहु: अभिजिद्वारुणादित्यरेवतीसङ्गते सति । तदा लोपगते जीवे विवाहादि विवर्जयेत् ॥ १ ॥ 44 १९९ ני अस्यायं सम्प्रदायः- मासाः किल सर्वेऽप्येकान्तरं नक्षत्रनामाङ्किताः । तथाहि - अश्विन्या आश्विनः, कृत्तिकाया: कार्तिकः, मृगशीर्षस्य मार्गशीर्षः, पुण्यस्म पौषः इत्यादि । एवं चान्तरान्तरा यानि यानि भान्यधिकानि सन्त्यभिजित् १ शतभिषा २ रेवती ३ पुनर्व्वसु ४ रूपाणि तेष्वागतो गुरुलोंपगत इत्युच्यते, तस्मिन् सति लग्नं न ग्राह्यमिति । तथा 29 " अस्तङ्गते भृगुसुते भवेद्यदि बुधोदयः । पुत्राष्टकस्य जननी तदोढा कन्यका भवेत् ॥ १ ॥ शशाङ्कजो यदोदेति गुरोरस्तमनं यदि । जननी तदोढा कन्यका भवेत् ॥ १ ॥ दीक्षा शुक्रास्तेऽपि न दुष्टेति तु दिनशुद्धिग्रन्थे । जीवेऽस्तगते लग्नं नेष्टं तथा तस्य नीचत्वा (स्था ) दावपि । यदुक्त विवाहपटले 35 पुत्राष्टकस्य 23 "वाक्पतौ मकरराशिमुपेते, पाणिपीडनविधिर्न विधेयः । तत्र दूषणमुशन्ति मुनीन्द्राः, केवलं परमनीचनवांशे ॥ १ ॥ इति । " हित्वा पञ्चैव नीचांशान् " इति तु ग्रन्थान्तरे । तत्र लोकरूया आया एव परमनीचांशान्ताः पञ्च नीचांशास्त्रिंशांशरूपास्त्यज्यमानाः सन्ति । सर्वत्र लोके पञ्चत्रिंशांशस्यैव परमनीचत्वेऽपि च यदेवं क्रियते तल्लोक रूढ्यनुरोधादिति ज्योतिर्विद्वचः । इह वृत्ते जीवे सिंहस्थे इत्यनेन वर्षस्य, धन्वमीनस्थितेऽर्के इत्यादिना च मासस्य शुद्धी उक्ते । काचिन्माशुद्धिं दिननक्षत्रशुद्धी ज्येष्ठापत्यस्य न ज्येष्ठे ” (मिश्राद्वारे लो० ६) इत्यादिना, "उद्वाहे मृगपै" (मिश्राद्वारे लो०९) इत्यादिना च वक्ष्यति । समयशुद्धिस्त्वेवं - निशीथमध्यं 66 Aho! Shrutgyanam इति सारङ्गः । गर्गः । विशेषस्तु - यथा
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy