________________
चतुर्थी विमर्श
____ अत्र वृषे द्वितीयस्य कन्याद्रेष्काणस्य स्वामी बुधः सौम्यस्तस्य मीनमूर्तिस्थयो: शुक्रजीवयोश्च पूर्णा दृष्टिः, एवं पापस्वामिकत्वं पापदृष्टस्वं च भाव्यं । एवं वक्ष्यमाणे उदयास्तशुद्ध्यादौ नवांशादीनामपि,
सौम्यकरदृष्टत्वं च भाव्यम् ॥ शन्यन्दुकुजाँस्त्यक्त्वा शुभोऽन्येषां नवांशकः । लग्नवद् द्वादशांशस्तु त्रिंशांशस्तु नवांशवत् ।। ३७ ।।
व्याख्या-त्यक्त्वेति, यदुक्तं दैवज्ञवल्लभे" लग्नेऽर्कस्य नवांशे वाहननाशः कुजस्य वह्निभयम् । इन्दोः प्रतापहानिः शनेनवांशे मरणमेव ॥ १ ॥ "
लग्नवदिति “यातव्यं दिङ्मुखे लग्ने (२६)" इत्यत भारभ्य " यबवा वश्यं स्वलग्नेद्वोः (३३)" इति यावल्लग्न विषयं यदुक्तं तत्सर्व द्वादशांशेऽपि योज्यं । नवांश वदिति, अयमर्थः-शनिकुजवर्जानां त्रिंशांशः शुभः, अर्केन्द्रोस्त्रिंशांशाभावात् ॥ उक्ता षड्वर्गशुद्धिः । अथ यात्रायां द्वादश भावानाहतनुः१ कोशोर भटो३यानं४मन्त्रोऽरिवर्त्मजीवितम् ८ । मनः९कर्मा १० जना ११ मन्त्री १२भावाः स्युरुदयादयः॥३८॥
___ व्याख्या-कर्मेति भाग्यं व्यापारो वा । एषु स्थानेष्वेषां शुभाशुभोदर्का ग्रहबलाद्विचार्यन्ते ॥ इह च पूर्वोक्ता भावविचारणा बहुसमैव । विशेषस्तु यात्रायां द्वादशभावेषु ग्रहविचारमाहहन्ति योधायकर्मान्यानसौम्यः कर्म चासितः। सौम्योऽप्यरिं सितोऽध्वानं चन्द्रश्च तनुजीविते ॥ ३९ ॥ ____ व्याख्या-असौम्यः क्रूरो ग्रह स्त्रिदशैकादशवर्जान् सर्वान् भावान् हन्ति त्रिदशैकादास्तु पुष्णातीत्यर्थः । किं सर्वोऽपि कर एव ? नेत्याह-कर्म चासित इति, असितः शनिर्दशमभावमपि हन्ति, शेषाँश्च सर्वान्, केवलं ध्येकादशावेव शनिः पुष्णातीति भावः । सौम्योऽप्यरिमिति, सौम्योऽपि गुरुकशुखुधेन्दुरूपो ग्रहोऽरि षष्ठभावं हन्ति "सौम्याः षष्ठेऽरिना" इत्युक्तेः, शेषभावाँस्तु पुष्णात्येव, करग्रहस्तु षष्ठभावं हन्त्येव क्रूरत्वादेवेत्यपेरर्थः । ननु किं सवाऽपि सौम्योऽरि. वर्जसर्वभावान् पुष्णात्येव ? नेत्याह-सितोऽध्वानमिति सितः शुक्रोऽध्वानं ससमभावमपि हन्ति, चन्द्रश्च प्रथमाष्टमभावावपिन्ति, शुक्रन्दू षष्ठभावं विनाशयत इति सूक्तमेव । एवं चायमर्थः सम्पन्न:
Aho! Shrutgyanam