SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ चतुर्थी विमर्श: तत्रोदयसम्मुखीन' इति तदैकान्तिककार्यविषयं, सौस्थ्ये तु यथाशक्ति त्रिविधमपि सम्मुखत्वं त्याज्यमिति द्रष्टव्यं । तथा चोक्तं दैवज्ञवल्लभेधनिष्ठादिकमले पापर्यन्तं भगणं भृगुः । यदा चरति नोदीचीं नापाचीं च तदा व्रजेत् ॥ १ ॥ मघादिश्रवणान्तानि भानि शुक्रो यदा चरेत् । नापाचीं न प्रतीचीं च तदा गच्छेजिजीविषुः ॥ २ ॥ " 66 'तस्मात् प्रतिकुजमिति' शुक्रादपि भौमः सम्मुखः कष्टदत्वात्कष्टः, तमपि त्रिविधं त्यजन्तीति योगः । तस्मादपि सोमजो बुधः सम्मुखः कष्टः । उक्तञ्च दैवज्ञवल्लभे 66 प्रतिशुक्रेऽपि निर्गच्छेदनुकूलो बुधो यदि । गतः प्रतिबुधेनान्यैः शक्यते रक्षितुं ग्रहैः ॥ १ ॥ "" शुक्रवद्भौमबुधयोरपि सम्मुखत्वं दक्षिणभुजस्थस्वं च त्याज्यमिति त्रिवि क्रमः । बुधः सम्मुख एव त्याज्य इति तु रत्नमालाभाच्ये ॥ वत्सचारमाहवत्सः प्राच्यादिषूदेति कन्यादित्रित्रिगे रखौ । प्रवासवास्तुद्राराचप्रवेशाः सम्मुखेऽत्र न ॥ २० ॥ १४९ व्याख्या -- प्रवासो दूरदेशयात्रा, वास्तु गृहादि तस्य द्वारं न निवेश्यते, अयतैत्यर्चा जिनादिप्रतिमा तस्याः प्रवेशो धनिकगृहानयनं । अत्रेति वत्से । नारचन्द्र टिप्पन के वत्सरूपमेवं प्रोचे " व पुरस्यः शतं हस्ताः शृङ्गयुगं षष्ठिसंयुता त्रिशती । पन्नाभिपुच्छशिरसां भूप १६ नव ९ त्रि ३ शर ५ करमानम् ॥ १॥ ” स्थापना- हस्ताः १०० ३६० देहः भृङ्गे १६ ९ ३ ५ पदाः | नाभिः । पुच्छं शीर्ष विशेषस्तु - “पञ्च १ दिक् २ तिथि ३ सत्रिंश ४ तिथि ५ दिक ६ शरवासरान् ७ । वत्सस्थितिर्दिक्चतुष्के प्रत्येकं सप्तभाजिते ॥ १ ॥ " तथैव स्थापना - ( समीपस्थपत्रे विलोक्या ) इदं ज्योतिषसारे । केचिद्वत्सस्य वास्तुसंज्ञामाहुः ॥ Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy