SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ द्वितीय विमर्श ज्ञोऽखिले फलदो राशावादावादित्यमंगलौ । मध्ये सुरासुराचार्यौ प्रान्ते त्विन्दुशनैश्वरौ ॥ ६७ ॥ व्याख्या - - फलद इति शुभगोवरस्थः शुभं फलं दत्ते, अशुभगोचरस्त्वशुभमिति भावः । राशाविति यस्तेन स्वयमाक्रान्तोऽस्ति तस्मिन् । आदाविति आद्यद्रेष्काणे | मध्ये इति द्वितीयद्वेष्काणे । प्रान्ते इति तृतीयद्वेष्काणे । इदं च सहजगतौ वर्तमानानां ग्रहाणामुक्तं । यदा तु वक्रेणातिचारेण वा ग्रहा राज्यन्तरं गताः स्युस्तदैवम् << पक्षं १ दशाहं २ मासं ३ च दशाहं ४ मास पञ्चकम् ५ । वक्रेऽतिचारे भौमाद्याः पूर्वराशिफलप्रदाः ॥ १ ॥ इति लल्लः । सत्यग्रेतनराशेः अतिचरितास्तु पाश्चात्यराशेः फलं 99 अत्र पूर्वराशीति व ददतीत्यर्थः । प्रश्नप्रकाशक रस्त्वाह वक्रsतिचारे भौमाद्याः पूर्वराशिफलप्रदाः । जीवः शनिश्च यत्रस्थौ तस्य राशेः फलप्रदो ॥१॥ "" 66 " "" राश्यन्तगतः खेटः परभावफलं ददाति पृच्छासु । अन्त्यघटीं यावदसावासीनफलं विवाहादौ ॥ १ ॥ " अन्न राश्यन्तोऽन्त्यत्रिंशांशरूपः ॥ विरुद्धे ग्रहगोचरे पुंसा विशिष्य सत्कर्मनिरतेन भाव्यं सुदूर यात्राहयवाहनवि कालचर्यासाहसादि च त्याज्यं, सदापि चैवं न निर्वहतीत्यतस्तच्छान्तिकमाह अर्कारियो १ स्य २ गुरोः ३ सितेन्द्रो ४ मन्दस्य ५ राहुरगयो ६ च तुष्टयै । विशेषस्तु - 9 सदा वहेद्विद्रुम १ हेम २ मुक्ता ३ " रूप्याणि ४ लोहं ५ च विराटजं ६ च ।। ६८ ।। व्याख्या - विद्रुमादीनां षण्णां पूर्वार्धस्थैरर्कारयोरित्यादिपदैर्यथासंख्यं योगः। उरगः केतुः । विराटजो राजावर्तमणिः । ननु सप्तानां ग्रहाणां सर्वदा विचार्य गोचरफलमुक्तं, दिनमासवर्षहोराधिपत्यमप्येषामेव, तत्कथं राहुकेत्वोर्ग्रहस्वं कथं वा तयोः प्रतिकूलगोचरत्वं यच्छान्त्यर्थं विराटजादिवहनं क्रियते ? उच्यते - तयोर्दिनाधिपत्याद्यभावोऽस्तु, ग्रहत्वं स्वस्त्येव, राश्यादिचारस्यान्यथाऽनुपपत्तेः । राहुगोचरश्च ग्रहणदिने विचार्यः इत्युक्तं, ततस्तदा तस्प्रतिकूलत्वे तच्छान्तिकमुपयुज्यते । केतुरपि यदोदितः स्यात्तदा तदुत्थारिष्टशान्तये तच्छान्तिकस्योपयोगः॥ तथा Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy