SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्री नमस्कारमाहात्म्ये ॥ १४ ॥ 1 असिआडसेति मन्त्र तन्त्राभावक्षराङ्कितम् । स्मरन्तो जन्तषोऽमन्ताः, मुच्यन्तेऽन्स कबन्धनात् ॥ ४० ॥ अईदरूपाssचार्योपाध्यायन्यादिमाक्षरैः । सन्धिप्रयोगसंश्लिष्टैः ॐकारं वा विदुर्जनाः ॥ ४१ ॥ व्यक्ता मुक्तात्मनां मुक्तिः, मोहस्तम्बेरमा हुशः । प्रणीतः प्रणवः प्राज्ञैः, भवार्त्तिच्छेदकर्त्तरी ॥ ४२ ॥ ओमिति ध्यायतां तस्वं स्वर्गार्गल ककुञ्चिकाम् । जीविते मरणे वापि, मुक्तिर्मुक्तिर्महात्मनाम् ॥ ४३ ॥ सर्वथाप्यक्षमो दैवात् यद्वाऽन्ते धर्मबान्धवात् । शृण्वन् मन्त्रमनुं चित्ते धर्मात्मा भावयेदिति ॥ ४४ ॥ अमृतैः किमहं सिक्तः, सर्वाङ्गं यदि वा कृतः । सर्वानन्दमयोऽकाण्डे, केनाऽप्यनवबन्धुना ॥ ४५ ॥ परं पुण्यं परं श्रेयः परं मङ्गलकारणम् । यदिदानीं श्रापितोऽहं पञ्चनाथनमस्कृतिम् ॥ ४६ ॥ अहो ! दुर्लभलाभो में, ममाहो ! प्रियसङ्गमः । अहो ! तत्वप्रकाशो मे, सारमुष्टिरहो ! मम ॥ ४७ ॥ अद्य कष्टानि नष्टानि, दुरितं दूरतो ययौ । प्राप्तं पारं भवाम्भोधेः, श्रुत्वा पश्चनमस्कृतिम् ॥ ४८ ॥ प्रशमो देवगुर्वाज्ञा-पालनं नियमस्तपः । अद्य मे सफलं जैज्ञे, श्रुतपश्ञ्चनमस्कृतेः ॥ ४९ ॥ स्वर्णस्येवाग्रिसम्पातो, दिया मे विपदप्यभूत् । यल्लेमेऽद्य मयऽनर्घ्य, परमेष्ठिमयं महः ॥ ५० ॥ एवं शमरसोल्लास - पूर्वं श्रुत्वा नमस्कृतिम् । निहत्य क्लिष्टकर्माणि, सुधीः श्रयति सद्गतिम् ॥ ५१ ॥ १ •द्याक्ष० ख० मं० घ० हि० । २ ० न्तात् क० घ० । ३ शुक्तिः स्र० ग० घ० हि० । ४ जन्म, ख० ग० घ० हि० । ५० सन्तापो, ख० हि० । ६ ०हान० ख० न० दि० । पशु प्रकाशः । ॥ १४ ॥
SR No.034178
Book TitleNamaskar Mahatmyam
Original Sutra AuthorN/A
AuthorSiddhasenacharya
PublisherKesarbai Gyanmandir
Publication Year1948
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy