SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ श्री नमस्कारमाहात्म्ये ॥५॥ ''- कारोऽत्र दिशत्येवं, त्रिरेखः शून्यमालितः । रत्नत्रयमयो ह्यात्मा, याति शून्यस्वभावताम् ॥ १९ ॥ शुभाशुभैः परिक्षीणैः कर्मभिः केवलस्य या । चिद्रूपतात्मनः सिद्धौ सा हि शून्यस्वभावता ॥ २० ॥ पञ्चविग्रहसंहन्त्री, पश्चमीगतिदर्शिनी । रक्ष्यात् पश्चाक्षरीयं वः, पञ्चत्वादिप्रपश्चतः ॥ २१ ॥ इति द्विर्तीयः प्रकाशः समाप्तः । तृतीयः प्रकाशः । न तमोन रजस्तेषु, न च सत्त्वं बहिर्मुखम् । न मनोवाग्वपुः कष्टं, यैराचार्यांद्रयः श्रिताः ॥ १ ॥ मोहपाशैर्महचित्रं, मोटितानपि जन्मिनः । मोचयत्येव भगवान्, आचार्यः केशिदेववत् ॥ २ ॥ आचारा यत्र रुचिराः, आगमाः शिवसङ्गमाः । आयोपाया गतापायाः, आचार्य तं विदुर्बुधाः ॥ ३ ॥ यथास्थितार्थप्रथको, यतमानो यमादिषु । यजमानः स्वात्मयज्ञं, यतीन्द्रो मे सदा गतिः ॥ ४ ॥ रिपौ मित्रे सुखे दुःखे, रिष्टे शिष्टे शिवे भवे । रिक्थे नैः स्व्ये समः सम्यक्, स्वामी संयमिनां मतः ॥ ५ ॥ या काचिदनघा सिद्धिः, या काचिद् लब्धिरुज्वला । वृणुते सा स्वयं सूरिं, भ्रमरीव सरोरुहम् ॥ ६ ॥ १ शुद्ध घ० । २ रेक्थ्ये नैः० हि० । तृतीयः प्रकाशः । ॥५॥
SR No.034178
Book TitleNamaskar Mahatmyam
Original Sutra AuthorN/A
AuthorSiddhasenacharya
PublisherKesarbai Gyanmandir
Publication Year1948
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy