SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ मलय ॥९८॥ HXNX901100 मयोक्तं क्षत्रियावावां चलितौ विषयांतरे । सत्यं कनकवत्यापि सर्वमंगीकृतं ततः ॥ ५९ ॥ तस्यामात्मकृतं सर्वं कथयंत्यां पुरो मम । विभातायां विभावर्यं पुनः पृष्टं मया ततः ॥ ६० ॥ सुंदर्या - ख्याहि किं चित्ते पार्श्वेऽस्त्याभरणादिकं । अथानीय तथा सर्वे दर्शितं प्रीतया मम ॥ ६१ ॥ एताव|न्मात्रमेवैतत्पुनः पृष्टे तयोदितं । लक्ष्मीपुंजाभिधो हारो निक्षिप्तोऽस्ति मया कुतः ॥ ६२ ॥ पृष्टे तयोऽस्ति शून्यागारस्य सन्निधौ । चतुष्पथस्थितेः कर्त्तिस्तंभस्य भृतकांतरे ॥ ६३ ॥ दिवाहं नैव शक्नोमि तत्र गंतुं कथंचन । रजन्यामपि यास्यामि नृपात्कृच्छ्रेण बिभ्यती ॥ ६४ ॥ માં ज्ञात्वा स्थानं महाहारं तमाकृष्टुं यदि क्षमा । तदाऽागच्छ गृहीत्वा त्वं पश्चाद्याव उभावपि ॥ ६५ ॥ अन्यथागत्य संध्यायां कथनीयं त्वया मम । इत्यालोच्य मिथो मालादुत्तीर्णाहं ततः प्रियः ॥ ६६ ॥ पृष्ठे मागधयाशंसि मयाप्येवं तदग्रतः । तव प्रार्थनया भद्रे | तथास्ति विहितं मया ॥६७॥ वारयंत्यामपि यथा त्वय्येषा निशि यास्यति । ततो भोजनसामग्रीं हृष्टा मे मगधा न्यधात् ॥ ६८ ॥ | मया प्रच्छन्नया तत्र गत्वा प्रेक्षि समंततः । गर्त्तापूरोऽस्य स्तंभस्य प्रापि हारः परं न सः ॥६९॥ ततः -180-241-249141880-2006 चरित्रं ॥९८॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy