SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ मलय ॥ ८८ ॥ *8046696969888 गांधर्विकाकारमारविभ्रमधारिणः । महाबलकुमारस्य कंठे मालामलोठयत् ॥ ४८ ॥ त्रिभिर्विशेषकं ॥ अथ मिथो नरेंद्रास्ते तद्रूपेण चमत्कृताः । वदंतिस्म परीक्षाहो कुमार्या इह कीदृशी ॥ ४८ ॥ यदेषूतमवंशेषु राजपुत्रेषु सत्स्वपि । अज्ञात कुलवंशादिर्गत्वा गांधर्विको वृतः ॥ ५१ ॥ ततो वयं सहिष्यासो. नवं नैतत्पराभवं । हत्वा गांधर्विकं त्वेनं ग्रहीष्यामः पतिं वरां ॥ ५१ ॥ इति संभूय ते सर्वे यावत्तं हंतुमुद्यताः । तावच्छ्वसुरसैन्येन वेष्टितो वैणिकः क्षणात् ॥ ५३ ॥ वज्रसारं तदेवाशु चापमादाय लीलया । आविश्वके कुमारः स बाणवर्षेण विक्रमं ॥ ५४ ॥ महाबले महाबाहौ तस्मिन्निघ्नति भृभुजः । लगुडे पतिते काका इव नेशुर्दिशो दिशि ॥ ५४ ॥ अत्रांतरे कुमारः स रोमांचकवचं वहन् । एकेन. भट्टपुत्रेण दृष्टः पूर्वमबुध्यत ।। ५६ ।। पेठे तेनेत्ययं सूनुः सुरपालनरेशितुः । महाबलो महावीर्यश्चिरं जयतु भूतले ॥ ५७ ॥ चिंतितं तेन भूपेन स्वयंवरविधायिना । अहो किं श्रूयते कर्णसुधासारोपमं वचः ॥ ५८ ॥ ऊचे च ब्रूहि रे सम्यक् कुमारः कोऽयमीदृशः । सोऽवोचदेव! संदेहो न कोऽप्यत्र मनागपि ॥ ५९ ॥ प्रसादैरहमेतस्य 200407+9 चरित्रं ॥ ८८ ॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy