________________
मलय
॥७५॥
॥४॥ अत्रागतेन भूपस्य पुत्रेण ह्यस्तने दिने । वेष्टितेक्षुलता कंठादुत्तार्य स्वर्णशंखलां ॥५॥ क्रीडयोल्लालिता हस्तिसमीपे सेक्षुयष्टिका । निपतंती करग्राहं मुखे क्षिप्ताशु दंतिना ॥ ६ ॥ राज्ञोऽग्रे कथितं मेंठनिष्कासयितुमक्षमः । राजादिष्टा वयं तेन गालयामः पुरीषकं ॥७॥ कदाप्येकमुभे त्रीणि चत्वार्यपि कदाचन । लभ्यंते तस्य खंडानि हस्तिविट् तेन गाल्यते ॥८॥ महाबलेन तन्मुद्रारत्नमादाय केशतः । प्रच्छन्नं चिक्षिपे तत्र करिणो घासपूलके ।। ९॥ तं घासपूलकं यावजग्रसे स मतंगजः । तावत्तत्र कुमारोऽपि स्थित्वाऽचालीत्ततोऽग्रतः॥१०॥ गच्छताथ कुमारेण दृष्टो गोलानदीतटे । मिलितः प्रचुरो लोकः कुर्वन् कोलाहलं भृशं ॥ ११ ॥ स दध्यौ नूनमेतत्तद्यदर्थ चलितोऽस्म्यहं । उद्गच्छंती चितावह्वेधूमलेखा यदीक्ष्यते ॥ १२ ॥ ऊर्ध्वहस्तोऽथ वेगेन स नैमित्तिकवेषभाक् । दधावेऽभिचिताधूमं वदन्नेवं मुहुर्मुहुः ॥ १३ ॥ मुधा मा साहसं कार्षीभूपतेऽपत्यवत्सल । नूनं जीवति ते पुत्रीरत्नं मलयसुंदरी ॥ १४ ॥
तस्येदं वचनं श्रुत्वा कर्णयोरमृतोपमं । मुंचन्नश्रूणि लोकोऽथ दधावे तं नरंप्रति ॥ १५ ॥
॥७५॥