SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ मलय ॥४०॥ बलं । क एष लक्षणोपेतः कुमारो मारविग्रहः ॥ १९ ॥ तेषामेकेन दक्षेण नरेणाभाणि हे प्रभो । स्नेहेन सममायातो ममैष लघुबांधवः ॥ २० ॥ इत्यालापे कृते पूर्व राज्ञश्चंद्रावतीपतेः तैरात्मस्वामिनः सर्वः। कार्यभारो निवेदितः ॥ २१ ॥ ते सन्मान्य ततो राज्ञा विसृष्टाः सूरपुरुषाः । निजावासमनुप्राप्ताः कुर्वाणास्तत्प्रशंसनं ॥ २२ ॥ महा. बलकुमारोऽथ बभ्रामाल्पपरिच्छदः । लोकलोचमलोलैणवागुरः पूर्दिदृक्षया ॥ २३ ॥ इतस्ततो भ्रमन् सैष स्वसौधांतिकमागतः । तया मलयसुंदर्याऽदानंग इवांगवान् ॥ २४ ॥ तत्काल-| |माहता पंचबाणबाणैः समंततः ॥ कुमारी चिंतयामास हर्षोल्लसितमानसा ॥ २५ ॥ अहो मृदुतलौ पादावशोकपल्लवारुणौ । अहो कांतिभरोऽप्यस्य नखदर्पणसंभवः ॥ २६ ।। अहो करिकराकारं जंघायुग्मं मनोहरं । रंभास्तंभोपमावूरू अहो पुंसोऽस्य सुंदरौ ॥ २७ ॥ अहो कटीतटाभोगो नाभेश्चाहो गभीरता । मुष्टिग्राह्यमहो मध्यं त्रिवलीपरिशोभितं ॥२८॥ वक्षःस्थले विशालेऽस्य धन्या कापि शयिष्यति । अतिदी! भुजादंडौ कस्याः कंठे लगिष्यतः॥२९॥ तेजोभरेण दुष्प्रेक्षा भांति पाणि- | ॥१०॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy