SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ मलय २१७॥ 18004146011640866 अद्यैवाहं निराधारोऽभूवं चाऽनायकः पितः ॥ ७३ ॥ दृष्टुं शक्या न युष्माकं जातावस्था यदीदृशी । नूनं न संति पुण्यानि यन्नाभृत्संगमोऽपि मे ॥ ७४ ॥ विलपन्निति भूपालः शोकबाष्पाकुलेक्षणः । भ्रूविक्षेपेण सहसेत्यादिदेश निजान् भटान् ॥ ७५ ॥ पदानुसारतः पापं तं पश्यत द्रुतं भटाः । लप्स्यध्वे निश्चितं यूयं पापं तस्य फलिष्यति ॥ ७६ ॥ ततो विलोकयद्भिस्तैस्तदा पादानुसारतः । | लब्धा सा कनकवती दुराचारस्थिता क्वचित् ॥ ७७ ॥ केशग्राहं समानोय ततो राज्ञः समर्पिता । तेन ताडयिता पृष्टा छिन्ननासाथ सा वशा ॥ ७८ ॥ हन्यमानाथ सा सर्व सम्यगूचे नृपायतः । तेन नानाविधैमीरैः सा पापा मारिता ततः ॥ ७९ ॥ तया प्राप्तमशेषं च निजकर्मोचितं फलं । नरकोव्यां समुत्पन्ना सा षष्ट्यां कष्टभाजनं ॥ ८० ॥ तातशोकं नरेंद्रोऽपि कुर्वाणो मंत्रिभिर्भृशं । संबोधितोऽपि नात्याक्षीत् क्षणमात्रमपि कचित् ॥ ८१ ॥ ज्ञात्वा तातस्य तादृक्षं दुस्सहं मरणं ततः । सहस्रबल भूपोऽपि न्यमजच्छोकसागरे ॥ ८२ ॥ द्वयोरपि तयो राज्ञोः पितृशोकभरो भृशं । रामलक्ष्मणवत्कृष्णबलदेववदस्फुरत् ॥ ८३ ॥ इतश्चामलचारित्रा साध्वो मलयसुंदरी । एकादशांगतत्वज्ञा चरित्रं ॥२१७॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy