SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ मलय ॥२१५ ॥ 1101616299813 सहिष्णुना ॥ ५० ॥ प्रशांत लोकसंचारं भूमिभागं विलोक्य तं । शून्यारण्यवत्कनकरती हृष्टा भृशं हृदि ॥ ५१ ॥ तत्र चानीय केनापि काष्टान्यंगारहेतवे । पूर्वमेव प्रभृतानि मुकान्यासन् स्वभावतः ॥ ५२ ॥ तया तैः पापया काष्ठैवेंष्टयंत्या तदा मुनिं । छादितः स तथा क्वापि यथा न ददृशे मनाक् ॥ ५३ ॥ चातुर्गतिक संसारदुःखैर्नानाविधैः किल । तयात्मा वेष्टितः काष्ठैर्वेष्टयंत्या तदा मुनिं ॥ ५४ ॥ जन्मांतरस्य वैरिण्या ततो निर्दयया तया । चतसृष्वपि काष्टासु ज्वलनो ज्वलितो भृशं ॥ ५५ ॥ मुनिनापि तदा ज्ञात्वोपसर्ग मरणांतिकं । विहिताराधना चित्ते तथैव स्थितिमीयुषा ॥ ५६ ॥ ततः प्रज्ज्वलितो वह्निर्मुनिं दग्धुं समंततः । प्रारेभे मूलतस्तस्याः सुकृतस्येव संचयं ॥ ५७ ॥ महाबलमुनिः सम्यगुपसर्गे सुदुस्सहं । सहमानः स्वमात्मानं लग्नो बोधयितुं ततः ॥ ५८ ॥ रे जीव भवता प्राप्तप्रायं तीरं भवांबुधेः । शुभभावमहापोतचटितेन चिरादिह ॥ ५९ ॥ ततः सद्भावनापोतमेतं सच्चित्तवायुना । तथा प्रेरय रे जीव यथाशु लभते तटं ॥ ६० ॥ दुःखानि यानि सोढानि भवता नरकादिषु । तानि चिंतयतो दुःखं तवेदं जोब कोदृशं ॥ ६१ ॥ मा चिंतयाऽशुभं किंचित्व 100012081484698089846071984 चरित्र ॥२१५॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy