SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ मलय ॥२१३ ॥ 61789811684860000088 ॥ २७ ॥ मन्यमानौ कृतार्थ स्वं गुरुशिक्षाभिरन्वहं । तावुभौ बांधवौ जातौ दृढस्नेहौ परस्परं ।। २८ ।। तथा च तावजायेतां जिनधर्मैकतत्परो । येऽन्येषां मार्गदेष्टारो मार्गाद्भ्रंशंति ते हि किं ॥ २९ ॥ महाबलोऽथ राजर्षिः खड्धारावतं चरन् । ज्ञातागमः क्रमेणाभृद्गीतार्थैकशिरोमणिः ॥ ३० ॥ एकाकित्वविहारेणानुज्ञातो गुरुभिस्ततः । विजहार महात्मासो सर्वत्रास्खलितव्रतः ॥ ३१ ॥ मेरुवन्निश्चलः सर्वसहः सर्वसहेव यः । सौम्यः सोम इवात्यंतं सदाचारी समीरवत् ।। ३२ ।। आकाशवन्निरालंबः शंखवच्च निरंजनः । संवेगरसनिर्मग्नो भग्नाभ्यंतरशात्रवः ॥ ३३ ॥ पुरे सागरतिलके स तत्र विहरन् ययौ । वाचंयमो क्रमाद्यत्र पुत्रः शतबलोऽस्य राट् ॥ ३४ ॥ त्रिभिर्विशेषकं ॥ उपलक्ष्याथ तं साधुं गत्वा चोद्यानपालकः । व्यजिज्ञपत्सभासीनं नृपं शतवलं मुदा ॥ ३५ ॥ महाबलमुनिर्देव ! पुरोधाने पिता तव । एकाकित्वविहारेण भ्रमन्नत्रागतोऽधुना ॥ ३६ ॥ राजा शतबलेनाथ हर्षरोमांचशालिना । प्रीतिदानं ददे तस्मै वनपालाय वांछितं ॥ ३७ ॥ संध्यायाः समयो जातः सांप्रतं तद्दिवामुखे । अभिगम्य प्रणस्यामः सर्व जनकं निजं ॥ ३८ ॥ धन्योऽयं सकलो लोकः पवित्रितमिदं पुरं । 80109 848+*141804 चरित्र ॥२९३॥ 1
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy