________________
चरित्रं
मलय- श्वरयोर्मम । अतः प्रकाशनीयोऽस्य नात्मा किंचिन्मया खलु ॥५॥ यद्ज्ञातपरमार्थोऽयं नरेंद्रो
| मे विशेषतः । खंडयिष्यति कोपेन शीलं पुत्रं च लास्यति ॥ ६॥ ततो निःश्वस्य दीर्घ सा बभाषे ॥१५७॥ " किं प्रयोजनं । युष्माकं मंदभाग्याया मम तृप्त्या नराधिपः॥ ७ ॥ अहं वैदेशिकी स्वीयपुण्यनाशेन !
दुःखिता । एवं रुलामि सर्वत्र रोरभायेंव भूपते ॥ ८ ॥ ऊचेऽथ सेवकैर्देव! दुःखभारेण भारिता । इष्टभ्रष्टा न शक्नोति वक्तुमेषात्र किंचन ॥९॥
न पृष्टव्या ततः किंचिद्वचसा सुखमीयितुं । इयं युक्तानुकंपास्याः कार्योपकृतिरेव च ॥ १० ॥ X नृपः स्माह पुनर्भद्रे। तथापि स्वां वदाभिधां । मंद मंदं तयोचेऽहं नाना मलयसुंदरी ॥ ११ ॥ ततो * राज्ञा निजावासं नीता सौख्यासनेन सा । संरोहिणीरसेनांगं सजितं च सुखं सुखं ॥१२॥ विमुक्ता -
वास एकस्मिन् दासदासीयुताथ सा । राज्ञा सन्मानयांचक्रे वस्त्रालंकरणः स्वयं ॥ १३ ॥ तदेवं || मामयं राजा सत्करोति न तद्वरं । ध्यायंतीति सदा तस्थौ सा धर्मध्यानतप्तरा ॥ १४ ॥ अन्यदाभाणि
सा तेन मम भद्रे प्रिया भव । पट्टबंधस्तवैव स्वादहं त्वादेशकारकः ॥१५॥ कामार्थमिति तां भूपः
॥१५७॥