SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ चरित्रं ॥१५॥ मलय-मूर्छिता पतिता भूमौ लिप्ता रक्तेन सर्वतः ॥ ७२ ॥ इतश्च सहसाकाशादुत्तीर्यामिषवांछया । भारं-131 || डपक्षिणा चंचुपुटेनोत्पाटिता सका ॥ ७३ ॥ _____स यावद्गगने गच्छन् प्रापोपरि पयोनिधेः । पुरस्तादपरः पक्षी तावद्भारंड आययो॥७४ ॥ मांसखंडस्य लोभेन युयुधे सह तेन सः । ततश्चंचुपुटाहाला गलिता चेतनान्विता ॥७५॥ परमेष्टिनमस्कारं जल्पंती पतिताथ सा । नीरोपरि तरद्वस्तिमत्स्यपृष्टे विधेर्वशात् ॥ ७६ ॥ भारंडस्य | मुखात्तावत्पतिता हंत वारिणि । महामत्स्यस्य पृष्टे तु स्थिता देवनियोगतः॥७७॥ यदा तु जलधेरे मत्स्य एष निमंक्ष्यति । निराधारा मरिष्यामि तदाहमपि निश्चितं ॥ ७८ ॥ इति निश्चित्य चित्ते सा चकाराराधनां स्वयं । परमेष्टिनमस्कारं पपाठोच्चैः पुनः पुनः ॥ ७९ ॥ त्रिभिर्विशेषकं ॥ | परमेष्टिनमस्कारं शृण्वन् वक्रितकंधरः । पृष्टोपरि स्थितां तां स वीक्षांचक्रे पुनः पुनः ॥ ८ ॥ क्षणमेकं झषः स्थित्वा तरन् पश्चाजलोपरि । स्थिरचिच्चस्तथैवैकां दिशं गंतुं प्रचक्रमे ॥ ८१ ॥ अहो | नयति मामित्थं सुखेनाथ क्व नेष्यति । प्रकृष्टहितकृत्कोऽपि मत्स्योऽयमिति विस्मिता ॥ ८२ ॥ Pela ॥१५४॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy