SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ चरित्रं 64 मलय- पालभूपाल निर्विचारः किमीदृशः । पश्चात्तापेन पश्चात्त्वं भविष्यसि कयं पुनः ॥ ५॥ सुखहेतोविः मुक्तायास्तदा प्रियतम त्वया । गच्छता मम जातेयमवस्था सांप्रतं पुनः॥ ६॥ हा वल्लभातिदुर्लभ ॥१४॥ ज्ञात्वोदंतमिमं मम । विरहानलसंतप्तो भविष्यसि कथं कथं ॥७॥ हा मातस्तात हा भ्रातमिलि. ष्यामि कथं हि वः । एतावत्यपपुण्याया मम पुण्यानि संति न ॥ ८॥ अभविष्यन्न चेंजन्म * मृत्यु जन्मतोऽपि मे । अभविष्यं तदा नाहमीदृग्दुःखस्य भाजनं ॥ ९ ॥ बहुना शोचितेनापि परित्राणं कदापि न । कारणं विधिरेवेति सा तं श्लोकं ततोऽस्मरत् ॥ १० ॥ _ इत्यादि बहुधा तस्या विलपत्या महाव्यथाः । दुःखार्तायाः समुत्पेदे जठरे गर्भपूरिते ॥ ११ ॥ वेदनाविधुरा साथ सुषुवे नंदनं वरं । पूर्वेव तरणेवि तेजःपुंजविराजितं ॥ १२ ॥ आनंदितांकमारोप्य पश्यंती तं निजं सुतं । स्वयमेव वितन्वाना सूतिकर्मत्युवाच च ॥ १३ ॥ हा वत्स स्वच्छ कुहं तवारण्येऽत्र कीदृशीं । मनोरथशताप्तस्य वर्धापनपरंपरां ॥ १४ ॥ खिद्यमानेति बहुधा सहमाना च यातनां । कंप्यमाना भयेनोच्चैर्गमयामास तां निशां ॥१५॥ प्रभाते सा समीपस्थां नदी ॥१४८॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy