________________
मलय॥१०॥
*426800626400
॥ ९२ ॥ सोवाचास्य शयानस्य पादयुग्मं घृतेन चेत् । मृक्ष्यते स्यान्महानिद्रावशोऽचेतनवत्तदा ॥ ९३ ॥ परं पुंसः करेणैव पादाभ्यांगेऽस्य तादृशी । निद्रायाति न नारीणां करस्पर्शेन कर्हिचित् ॥ ९४ ॥ अन्यच्च चरणाभ्यंगा – पूर्व चेद्वेति मानुषं । पादाभ्यंगोऽपि नागदत्ते सुखं हंत्येव तं तदा ॥ ९५ ॥ इति भ्रातृप्रियाख्यात — दैत्यवृत्तांतमात्मनः । श्रुत्वा यावत्सहायाय कस्मैचिच्चलितोऽस्म्यहं ||२६|| तामपि मेऽत्रैव मिलितोऽसि नरोत्तम । साहाय्यं कुरु येन स्यु-स्त्वादृशोऽन्योपकारिणः ॥ ९७ ॥ परकार्योद्यताः संतः खकार्ये स्युः पराङ्मुखाः । धवलीकुरुते विश्वं कलंकं नात्मनः शशी ॥ ९८ ॥ तावन्मात्रं सुखं न स्याद्यावन्मात्रं सतोऽसुखं । अनुशोचयतस्तं तं यं यं पश्यति दुःखिनं ॥ ९९ ॥ निष्पेषः पिंजन तर्क कत्तैनं कूचताडनं । कर्पासेनासुखं सोढं पश्यान्याच्छादनाय भोः ॥ १०० ॥ तरवस्तरणेस्तापं सूर्योऽोल्लंघनक्लमं ! नौः संक्षोभं च पाथोधेः । सोढा कूर्मः क्षितेर्भरं ॥ १ ॥ वारिदो वर्षणक्लेशं क्षितिर्विश्वासुमत्क्लमं । उपकारादृतेऽमीषां न फलं किंचिदीक्ष्यते ||२||युग्मं || नैव नद्यः पिबेत्यंभो वृक्षाः खादंति नो फलं । मेघाः शस्यं च नाश्नंति क्लमोऽमीषां परार्थकृत्
00149014806110761074160
चरित्रं
॥ १० ॥