SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीयशोष. ॥ ३८ ॥ कृपालुजीवपालकच विद्यते, अतोऽसौ प्रसाद्यमानः किं प्रसीदति नवेति त्वं मा शङ्किष्ठाः, यतोऽयं मुनीन्द्रः परमब्रह्मलीनेन मनसा तन्मयतां गतः सन् मनागपि ते पराभवं नाद्रियते । उक्तञ्च - “दतेषु दानशौण्डानामिभ्यानामर्जितेषु च । योगिनां चोपसर्गेषु कियत्सु कियती स्मृतिः १ " ॥ १ ॥ तस्माद् भो भूपाल ! किमेतेन तव अनल्पविकल्पशङ्कुना ?, नलभूपस्य पूर्वभवे मुनौ प्रतिकूलक्रियैव । भवादृशाम् अमी भावाः कदाचिद् दैवयोगतो भवन्ति । अथापि हे पृथ्वीपाल ! सत्वरमेहि एहि, कालक्षेपं परित्यज, भक्तियोग्यं वेषं भज, वक्रीकृतग्रीवम् अश्वं मुञ्च । एषोऽहं तवाग्रेसरो भवामि, त्वं भूमौ | विलुठन् भगवच्चरणसमीपमुपेत्य प्रणिपत्य च खजन्म सफलं कुरु, भगवच्चरणरज श्रूर्णेन खशरीरं द्रव्यतो धूसरं भावतश्च सुपवित्रं विधेहि । केवलं मनो वाक् कायशुद्ध्या भगवत्पादान् एव भजख यत ईदृशमुनी - न्द्राणां भक्तिः परमार्थतः खार्थसाधनमेवास्ति । उक्तञ्च “या भक्तिः सर्वसाधूनां वस्तुतः स्वार्थ एव सः । वैलक्षेपो हि दीपानां गृहस्यैव प्रकाशकः” ॥ १ ॥ • पुनर्भो भूपाल ! त्वं धन्योऽसि यत् त्वयाऽप्रयासेन अयं मुनीन्द्रो दृष्टः यस्माद् महानिधीनामिव साधूनां प्राप्तिर्यथा तथा न भवति । अपिच, भवतो भवे भवे दुःखैकहेतुर्मृगयारम्भः क १ पुनः सर्वदा परमानन्दकारणम् इदं मुनिदर्शनं क १। त्वया किल अवकरनिकरं खनता मरकतमणिः प्राप्तः । तथा हे चरित्रम् भवः ८ ॥ ३८ ॥
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy