SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ चरित्रम्, भवौ५-६ बीवशोष. कदाचित प्रदीप्यते एव । अथ तस्मिन्नवसरे तस्यां सिप्रायां नद्यां सपयितुमानीतोऽयशालामुखमण्डनः सर्वलक्षणसंपूर्णः सर्वाऽवयवसुन्दरो राजवल्लभः किशोरोऽश्वस्तेन दृष्टः। दृष्ट्वा च स महिषो जातिखभावाद् ॥२३॥ वैरज्वरव्यासः सन् स्वाहं कम्पयामास । उक्तं च| "सहजं कृत्रिमं चेति द्विधा वैरं प्रचक्षते । सहजं निर्विशेषेण कृत्रिमं कारणान्तरात ॥१॥ ४ हय-कासरयोरज-वानरयोनकुलोरगयोः करि केसरिणोः । वृषदंश-विनायकवाहनयोः सहजं भुवि वैरमिह प्रथितम् ॥२॥ "तद् ब्रामण-श्रमणयोः प्रतिवेश्मपुंसोस्तद्वत् पितृव्यसुतयोरुभयोः सपत्योः।। नैसर्गिकं जगति वैरमकारणेन, केनापि कस्खचन किञ्चन नाऽपराद्धम् " ॥३॥ कृत्रिमं पुनरतीव दोषतः, कारणान्तरवशन तद्यथा । रामरावण-सुभूमभार्गव-कृष्णकंस-कुरुपाण्डुजन्मनाम् ॥ ४॥ अत एव कोपाटोपात् समुत्पन्नः प्रचुरतरफूत्कारैर्विकरालरूपः स महिष उद्दण्डैः खुरागृभूमण्डलं खण्डयन् इव तमचं हन्तुं सद्योऽभिमुखं धावति स्म । ततस्तीक्ष्णकृपाणाभ्यामिव शृङ्गाभ्याम् अकस्मात् तस्याऽबस्य हृदये प्रहारं चकार । तेन दुःसहप्रहारेण च सद्यस्तस्य हृदयं विभिन्नम् , तस्माच पलाशकुसुमाऽरुणं रुधिरं सवति स्म । ततः स तुरगोऽपि तत्प्रहारेण पीडितोऽपि सन् क्रोधात् तं दन्तैर्व्यथयामास । तदा समुत्पन्नाऽधिककोपः स महिषो बलात् तमश्वम् अधः पातयित्वा सद्यः खुरकु लैर्विदारयामास । ततस्तं १अश्व-महिषयोः । २ हस्ति-सिंहयोः । ३ मार्जार-मूषकयोः । KARANASI ॥ २६॥
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy