SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीयशोध. चरित्रम्, भवः१ ॥६ मवसरो विद्यते, यतोऽमी द्रव्य-क्षेत्र-काल-भावाः सर्वेऽपि धर्मगोष्टीविरोधिनोऽयुक्ता एव मिलिताः सन्ति ।। तथाहि-एकस्यां दिशि दुर्गन्धमदिरापूरितानि मद्यभाण्डानि सन्ति, अन्यस्यां दिशि मांसराशिर्विद्यते, कचित् प्रदेशेऽत्र मूञ्छिता भीता दीनलोचना अमी प्राणिनः कण्ठशोषेण तालुमनया जिह्वया निजदुःखमनुक्त्वैव प्राणान् त्यजन्ति। कचित् प्रदेशे पुनरेते रज्वादिभिर्वद्धदेहाः खभाषाविशेषविरसं पूत्कुर्वन्तः क्षुधा-पिपासादिविविधन्यथामनुभवन्तो दीनदृष्टया भवन्तं पश्यन्ति, अन्तर्निन्दन्ति चेति । अपि च, भो राजन् ! सर्वेऽपि संसारिणो जीवाः सुखाऽभिलाषिणो दुःखद्वेषिणश्च सन्ति, इदं हि तवापि खानुभवसिद्धं वर्तते, ततस्त्वं कथं निरपराधानाममीषां प्राणिनां वधं करोषि ।यो हि प्राणी शस्त्रवर्जितो युद्धपराङ्मुखो दन्तैश्च सर्वदा तृणं गृह्णाति तस्स हनने कदापि वीरत्वं नोच्यते, किन्तु नीचत्वमेव लोके प्रादुर्भवति । अथवा बहु किमुच्यते १, अहो ! अराजकमिदं जगत्, न हि अत्र कोऽपि कस्यापि शरणमस्ति, अन्यथा बलवद्भिर्मूखै?|| बलाः पशवः कथं हन्यन्ते । अन्यच, ये प्राणिनो धर्मार्थ पशून् नन्ति ते महामूर्खा जीवितार्थ विर्ष भक्षयन्ति, देहशैतल्यार्थं च वह्नौ प्रविशन्ति, यतो जीवघातेन कदापि शान्तिन भवति । यदुक्तम् "अहो नु खलु नास्त्येव जीवघातेनं शान्तिकम् । मूढवैद्यप्रयुक्तेन कुपथ्येनेव पाटवम् ॥१॥ अशाति प्राणिनां कृत्वा का खशान्तिकमिच्छति ? । इभ्यानां लवणं दत्त्वा किं कर्पूरं किलाप्यते ॥२॥ यो हि रक्षति भूतानि भूतानामभयप्रदः। भवे भवे तस्य रक्षा यद् दत्तं तदवाप्यते" ॥३॥ * *
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy