SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ॥२॥ KARNAKARSASAKSex अस्मिन्नसारसंसारे सर्वेऽपि जन्तवः पाणिनः निस्तुषं सुखमिच्छन्ति तत्सुखं शिव मोक्षे भवेत् , स मोक्ष: शुभध्यानास्प्राप्यते, ध्यानं च मनःशुद्धथा भवति, सा मनःशुद्धिः कषायविजयेन भवति, सः कषायविजयः इन्द्रिजयेन स्यात् , स इन्द्रियजयः सदाचारात् भवति असौ सदाचार. गुणनिबन्धनं नृणां सदुपदेशात् जायते ॥ १. संसारे दुःखं मोक्षे च सुखं तत्र तावत् संसारस्वरूपमाहआधिव्याधिजरामृत्युज्वालाशतसमाकुलः । मदीप्ताङ्गारकल्पोऽयं, संसारः सर्वदेहिनाम् ॥ १ ॥ न युज्यते तद् विदुषा, प्रमादोऽत्र मनागपि । कः प्रमाद्यति बालोऽपि, निशोल्लध्ये मरुस्थले १ ॥२॥ संसाराब्धाविहाऽनेकयोन्यावर्ताकुले जनः । दुर्लभं मानुषं जन्म, महारत्नमिवोत्तमम् ॥३॥ परलोकसाधनेन, मानुष्यमपि देहिनाम् । पादपो दोहदेनेव, सफलीभवति ध्रुवम् ॥ ४ ॥ आपातमात्रमधुराः, परिणामेऽतिदारुणाः । शठवाच इवाऽत्यन्तं, विषया विश्ववश्वकाः ॥ ५॥ पदार्थानामशेषाणां, संसारोदरवर्तिनाम् । *संयोगा विप्रयोगान्ताः, पतनान्ता इवोच्छ्याः ॥६॥ आयुर्धनं यौवनं च, स्पर्द्धयेव परस्परम् । सत्वरं गत्तराण्येव, संसारेऽस्मिन् शरीरिणाम् ॥ ७॥ संसारस्याऽस्य गतिषु, चतसृष्वपि जातुचित् । नाऽस्त्येव सुखलेशोऽपि, स्वादु नीरं मराविव ॥८॥ * संयोगः स्युर्वियोगान्ताः सं १॥+ अय श्लोकः पा. पुस्तके न दृश्यते ॥ १ जन्तोः ।
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy