SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ॥१६॥ च स्वीचक्रुः । ततो राज्ञा सा समहं गृहे प्रेषिता । क्रमेण प्रव्रज्यां संगृह सा वर्णनीयपदमवाप । स्याहादराद्धान्तविचारचेताः, कुदर्शनाशंसनमुक्तरागा। जयादिसेना मनसः प्रशस्त्या, क्रमेण सानन्तसुखं समाप ॥१॥ क्रोधविजयः सा मनःशुद्धिः कषायविजयेन भवति, ते च कषायाः चत्वारः सन्ति तत्रादौ-क्रोधस्वरूपमाहस्युः कषायाः क्रोधमान-मायालोमाः शरीरिणाम् । चतुर्विधास्ते प्रत्येक, भेदैः संज्वलनादिभिः॥१॥ पक्षं संज्वलनः प्रत्या-ख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष, जन्मानन्तानुबन्धकः ।।२।। वीतरागयतिश्राद्ध-सम्यग्दृष्टित्वघातकाः । ते देवत्व-मनुष्यत्व-तिर्यक्त्वनरकप्रदाः ॥३॥ तत्रोपतापकः क्रोधः, क्रोधो वैरस्य कारणम् । दुर्गवर्तनीक्रोधः क्रोधः शममुखार्गला ॥४॥ उत्पद्यमानः प्रथम, दहत्येव स्वमाश्रयम् । क्रोधः कृशानुवत्पश्चादन्यं दहति वा न वा ॥५॥ आ०-अजितं पूर्वकोट्या यद्-वरष्टभिरूनया। तपस्तत् तत्क्षणादेव, दहति क्रोधपावकः॥६॥ शमरूपं पय: प्राज्य-पुण्यसंभारसंचितम् । अमर्षेविषसंपर्का-दसेव्यं तत्क्षणाद् भवेत् ॥७॥ चारित्रचित्ररचना, विचित्रगुणधोरणीम् । समुत्सर्पन क्रोषधूमः, श्यामलीकुरुतेतराम् ॥ ८॥ यो वैराग्यशमीपत्र-पुटैः समरसोऽर्जितः । शाकपत्रपुटाभेन, क्रोधेनो KEECHESTRACT
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy