SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आणं, सत्तण्हं अणीआहिवईणं, चउण्हं चउरासीए आयरक्खदेवसाहस्सीणं, अन्नेसिं च वहणं सोहम्मकप्पवासीणं वेमाणिआणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भहित्तं महत्तरगत्तं अणाईसरसेगावचं कारेमाणे पालेमाणे महयाहयनदृगीयवाइअतंतीतलतालतुडियघणमुइंगपडुपडहवाइयरवेणं दिवाइं भोगभोगाइं भुंजमाणे विहरइ ॥ १३॥ व्याख्या-"तणं कालेणं ति” तस्मिन् काले, तस्मिन् समये शक्रस्य आसनविशेषस्य अधिष्ठाता (स्वामी)। ततः शक्रः देवानां मध्ये परमैश्वर्यात् इन्द्र इति देवेन्द्र देवेषु राजा, कान्त्यादिभिः अधिकं विराजमानत्वात् इति देवराजः, वज्रं पाणी-हस्ते यस्य स वज्रपाणिः । असुरादिपुराणां दारणात्-विदारणात् इति पुरन्दरः। शतं क्रतवो अभिग्रहविशेषाः पश्चमप्रतिमानां कार्तिकभवे यस्य स शतक्रतुः। कार्तिकश्रेष्ठिसम्बन्धस्तु एवम्पृथिवीभूषणं नाम पुरम् , प्रजापालो राजा कार्तिकनामा श्रेष्ठी राजमान्यो महर्द्धिकः परमजैनश्रावकः, तेन श्रेष्ठिना श्राद्धप्रतिमानां शतं कृतम्, तेन शतक्रतुरिति लोके प्रसिद्धिर्जाता । अन्यदा मासोपवासी गैरिकनामा परिव्राजकः समागतः। सर्वोऽपि राजादिको नगरलोकः परमभक्तो जातः, परं कार्तिकः श्रावकः तेन गैरिकं न मन्यते, तद्वृत्तान्तं ज्ञात्वा, गैरिको रुष्टो राजानं प्राह-हे राजन् ! अहं तव गृहे पारणं तदा करोमि यदा कार्तिकश्रेष्ठी मम भुञ्जानस्य परिवेषयति। तदा राजा श्रेष्ठिगृहे गतः, श्रेष्ठिना सत्कृत्य प्रयोजनं पृष्टः राजा प्राह For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy