SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्प० ४७ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुरु ।" कृतं पुनः भणितं " - "किं करोमि ? " तया भणितं - " मम मलमूत्रमल्लके परिष्ठापय ।” परिष्ठापितं, पुनः भणितं - " किं करोमि ? ।" तया भणितं - "अहं शये, त्वं मम पादौ विश्रामये" इति । एतादृशो भवसि तदा न याचे ।” तेनोक्तं- "नाहं एतादृशः, यत् त्वं याचिष्यसे तत् दास्यामि ॥” एवं अन्यत् सम्बन्धत्रयं श्रीपिण्डविशुद्धिवृहट्टीकातो ज्ञेयं । ततः सभातरुणैः प्रोक्तं- "भो चेल्लक! स्त्रीवशवर्तिनो दोषाः सर्वेऽपि अस्मिन् देवदत्ते वर्तन्ते । इति उपहासे कृते देवदत्तः प्राह - “भो भगवन् ! मा एतेषां वचनं शृणु, याचख यत् ते रोचते" । चेल्लन भणितं - " देहि मे घृतखण्डसहिताः श्वेतवर्तिकाः ।" ततो " ददामि” इत्युक्त्वा तं साधुं गृहीत्वा गृहाय चलितः । गृहद्वाराऽगमने चेल्लवेन भणितं “भो ! तव भार्यया समं मम क्लेशो जातोऽस्ति पूर्वं । तेन विचारय । ” तेन देवदत्तेन प्रोक्तं- “भो ! त्वं बहिरेव तिष्ठ, अहं गृहमध्ये गत्वा सुसचं कृत्वा आकारयामि, तदा आगच्छेः ।" तथैव कृत्वा गृहमध्ये गत्वा पृष्टा भार्या - "अद्य ये ब्राह्मणा निमन्त्रिताः सन्ति तान् समाकारयामि, जाता भोजनसामग्री १।" तया प्रोक्तं-"ओम्" इति । देवदत्तेन ज्ञातं - " अस्यां सत्यां न दातुं शक्नोमि " इति प्रोक्तं, “निश्रेण्यां चटित्वा उपरिष्टात् घृतगुडादि प्रचुरं आनय ।" सा चटिता उपरि, आकारितः साधुः । तेन साधुना उक्तं- "भो देवदत्त ! इमां निश्रेणीं दूरे कुरु यथा स्वेच्छया निश्चिन्तो विहरामि ।" तेन तथा कृते साधुना खेच्छया घृतगुडसहिताः अटिताः श्वेतवर्तिकाः । सा उपरिस्था पश्यति, दुःखं करोति, कोलाहलं करोति, परं न किमपि कर्तुं शक्नोति । साधुरपि ताभिः पात्राणि भृत्वा निःसृतो, निर्गच्छन् For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy