________________
Shri Mahavir Jain Aradhana Kendra
कल्प० ४६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चशतस्त्रीणां पतिः भोक्ता च जातः । एकदा कुत्रचित् कुमारनन्दिवर्णकारेण हासा - प्रहासानाइयौ देव्यौ दृष्टे । तयोः रूपेण मोहितः सन् प्रार्थनां कृतवान् । ताभ्यां प्रोक्तं- "आवयोः पतिः देवोऽभूत् । स च्युतः, तेन पतिं गवेषयावः, ततः त्वया पञ्चशैलकनाम्नि द्वीपे आगन्तत्र्यं यथा भोगयोगो भवेत्" इत्युक्त्वा ते हासामहासादेव्यौ स्वस्थाने गते । अथ कुमारनन्दिना तत्र गमनाय समुत्कण्ठितेन पटही वादितो यथा-" (यो) मां पञ्चशैलद्वीपे प्रापयति तस्मै कोटिद्रव्यं दद्मि [ददामि] ।" तत एकेन वृद्धनाविकेन तन्मार्गज्ञेन द्रव्यलोभेन अङ्गीकृत्य प्रोक्तं- “भो ! अर्ध साम्प्रतं मम पुत्रादीनां देहि, अर्धं च पश्चात् दयाः ।" ततञ्च तथैव कृते प्रबहणे चटितः । अग्रे समुद्रमध्ये वृद्धेन एको वटो दृष्टः । भद्रनन्दिनः प्रोक्तं- “भो ! इदं प्रवहणं अग्रे दृश्यमानवस्य अधो निःसरिष्यति, तत्र महान् आवताऽस्ति, तत्र वाहनं भक्ष्यति, परं त्वया घटशाखां गृहीत्वा वटे स्थातव्यं । तत्र व रात्रौ भारण्डपक्षिणः समेष्यन्ति, तत्पादे त्वया बन्धनेन देहो बन्धनीयः, ते च तत उड्डीय पञ्चशैलद्वीपे चूर्णिनिमित्तं यास्यन्ति, त्वचापि तत्र गत्वा बन्धच्छोदनेन देहं मोचनीयं [मोचयित्वा ] हासा-प्रहासापार्श्वे गन्तव्यं" इत्युक्ते तत्र स्थाने भग्नं वाहनं, स्वर्णकारोऽपि तथैव कृत्वा गतः, हासाग्रहासासमीपे कृता भोगार्थ प्रार्थना । ततः ताभ्यां प्रोक्तं- “भो ! अनेन अशुचिदेहेन न आवाभ्यां सह भोगो भवति ।” ततः ताभ्यां स कुमार नन्दी चम्पाया उद्याने आनीय मुक्तः । अथ भद्रनन्दिकुमारेण तत्प्राप्तिनिमित्तं इङ्गिनीमरणं अज्ञानकष्टं मारब्धं, तस्मिन् क्षणे तन्मित्रेण नागिलश्रावकेण वार्यमाणोऽपि न तिष्ठति स्म । ततो हासा
For Private and Personal Use Only
(४)X-6
D-X RX e-K