SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ८ ॥ २२९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तोत्पचिः श्रीवत् चतुश्चत्वारिंशदधिकपञ्चशतवर्षेषु [५४४] व्यतीतेषु, अन्तरञ्जिकायां नगर्यां श्रीरोह गुप्ताचार्यस्य * त्रैराशिकम श्रीगुप्तः शिष्यो वर्तते, तस्मिन् प्रस्तावे एको वादी पोहशालनामा परिव्राजकः समागतः । परं कीदृश: ? । वृश्चिक १ सर्प २ सूषक ३ मृगी ४ वराही ५ काकी ६ शकुनिका ७ विद्याभिः उदरं मे स्फुटतीति बद्धोदरपट्टः, पटहं नगर| मध्ये चादयामास - "यो मया सह वादं करोति स पटहं स्पृशतु ।” ततः रोहगुप्त उत्थितोऽहं वादं करिष्यामि । ततो गुरुणा तदीयविद्याः प्रजैतृविद्याः मयूरी १ नकुली २ बिडाली ३ व्याघ्री ४ सिंही ५ उलुकी ६ हो [ उ ] लावकी ७ प्रमुखा दत्ताः । पुनः प्रोक्तं- "अन्यविद्याप्रयुञ्जने इदं मया अभिमन्त्रितं रजोहरणं भ्राम्यं, त्वं अजेयो भविष्यसि ।" ततो रोहगुसेन बलश्रीनामराजसभायां तेन वादिना समं वादः कृतः परं न जीयते स्म । वादिना जीवाऽजीवी स्थापितौ । ततो रोहगुप्तेन दवरक-आवर्तदानेन भूमौ क्षिश्वा चलाऽचलो दर्शितः प्रोक्तं- "जीवोऽजीवो नो जीवश्च ३ एवं राशित्रयं स्थापयित्वा तं निर्जित्य जयं लब्ध्वा महामहोत्सवेन गुरुसमीपे समागतः । गुरुणा प्रोक्तं- "स्वया वादी जितः, श्रीजिनशासनस्य उद्दीपना च कृता, तत् चारु, परं नोजीयो नास्ति ।” ततः | सङ्घसमक्षं मिथ्यादुष्कृतं देहि ।" स च अभिमानी न ददाति । उवाच - "नोजीवोऽप्यस्ति, कथं मिथ्या दुष्कृतं ददामि ? ।” ततो गुरुणा समं षण्मासान् वादः कृतः । ततः कुत्रिकापणे गत्वा जीवाजीव- नोजीव- ॥ २२९ ॥ मार्गणे जीवाजीव देवेन दत्तौ, नोजीवो न दत्तः, असत्त्वात् । तथा चतुश्चत्वारिंशताऽधिकशतेन १४४ पृच्छाभिर्जितो गुरुणा, कोपेन भस्ममल्लकं मस्तके भक्त्वा गच्छात् बहिः कृतः । सोऽपि वैशेषिकमतं प्रवर्तयति For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy