SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०८ स्थूलभद्रसम्बन्धः ॥२२२॥ १, अन्यो द्वितीयः साधुः सिंहगुहायां स्थितः २, तृतीयः सर्पविलमुखे स्थितः ३, चतुर्थकूपविचालकाष्ठोपरि स्थितः ४, तत्र स्थूलभद्रस्य काठिन्यं यथा“वेश्या रागवती सदा तदनुगा षड्भी रसैर्भोजनं, रम्यं धाम मनोहरं वपुरहो नव्यो चयःसंगमः। कालोऽयं जलदागमस्तदपि यः कामं जिगायादरात् तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥१॥" कालस्तु वर्षाकालो मेघा गर्जन्ति, विद्युत् झात्कारं करोति, मयूराः केकारवं कुर्वन्ति, बप्पीहा:-पक्षिणः मियु प्रियु इति जल्पन्ति, दर्दुरा रटन्ति, स्वयं चित्रशालायां स्थितः षड्भिरपि रसैः सदा भोजनं कुरुते, कोशा रागवती षोडशशृङ्गारान् रचयित्वा सखीभिः सह नृत्यं कुर्वती कामोद्दीपकसरागवचनानि वदन्ती नाटक अकरोत् । परं महापुरुषो रोममात्रमपि न क्षुब्धः, प्रत्युत धर्मोपदेशदानेन कोशावेश्यां श्राविकां अकरोत् । चतुर्मासीपारणे चत्वारोऽपि साधवो गुरुसमीपे गताः । तदा त्रिषु आगतेषु गुरुणा किंचित् उत्थाय "खागतं भो! दुष्करकारकाः" इत्युक्तं । श्रीस्थूलभद्रे आगते तु गुरुणा उत्थाय “खागतं दुष्करकारक दुष्करकारक!" इत्युक्तं । ततः तेषु यः सिंहगुहावासी साधुः सोमर्षेण आगामिचतुर्मास्यां स्पर्धया गुरुवारितोपि कोशावेश्यागृहे गतः तां रूपवतीं दृष्ट्वा क्षुब्धः। वेश्यया प्रोक्तं-"धनं आनय।" तेनोक्तं-"तत् कुत्राऽस्ति?" कोशया प्रोक्तं-"नेपालदेशे राजा याचकानां सपादलक्षं रनकम्बलं ददाति ।" तदानी हि ततः तेन वर्षाकालेऽपि गत्वा राजपार्थात् रत्नकम्बलं प्राप्य आनीय वेश्याया दत्तं । तया च स्लानं कृत्वा ॥२२ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy