________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महाविदेहक्षेत्रे राजकुमारेण शिवेन वैराग्यं प्राप्य, द्वादशवर्षाणि महत्तपः कृतं, तथाहि-उपवासद्वयं कृत्वा पारणे आचारलं, एवं द्वादशवर्षाणि निरन्तरं तपः कृतं, तस्य प्रभावेण पञ्चमे ब्रह्मदेवलोके महर्द्धिकोऽभूत् । अथ अयं देवः सप्तमे दिने देवलोकतः च्युत्वा राजगृहनगरे ऋषभदत्तः श्रेष्ठी, धारिणी भार्या, तयोः पुत्र उत्पत्स्यते। ततः तथैच उत्पन्नः जन्मोत्सवे कृते गर्भस्थे अस्मिन् मात्रा जम्बूवृक्षो दृष्टः, ततो "जम्बूकुमार" इति नाम दत्तं, क्रमात् यौवनावस्था प्राप्तः, परं श्रीसुधर्मवामिपाचे धर्म श्रुत्वा, वैराग्यवान् जातः। मातृपितृममुखः आग्रहात् नीरागोऽपि अष्टकन्यापाणिग्रहणं मेने । एकदा श्रीसुधर्मस्वामिदेशनां श्रुत्वा दीक्षाया आदेशग्रहणार्थ गृहे आगच्छन् प्रतोल्यां यादागतप्रस्तरात् मरणमागतं टालयित्वा, पश्चात् निवृत्य श्रीसुधर्मखामिपाचे ब्रह्मव्रतं ललौ। तमिान गृहीतेऽपि मातृपितृप्रमुखाग्रहात् पाणिग्रहणं चत्रे । रात्रौ ता अष्टौ अपि कन्याः प्रतिवोधयता तालोद्घाटिनीविद्याभृत् चौर्यार्थ प्रविष्टः प्रभवनामा चौरोपि प्रतिबोधितः । प्रभाते जम्बूकुमारो दीक्षाग्रहणाय उत्थितः तदा अष्टी कन्याः ८, अष्टौ तासां मातरः १६, अष्टौ तासां पितरः २४, श्रीजम्बूखामिनो मातापितरौ एवं २६, चौराणां पञ्चशत्या-सह प्रभवः ५०१, सर्वे ५२७ एतैः सह जम्बूकमारो दीक्षा ललौ, मुक्तिं च गतः । येन जम्बूकुमारेण नवपरिणीता अष्टौ कन्याः, नवनवतिवर्णकोव्यश्च त्यक्ताः। पुनः चरमकेवली जातः।(१३) षोडश वर्षाणि गृहस्थत्वे, विंशतिश्च (२०) छानस्थ्ये, चतुश्चत्वारिंशत् (४४) केवलित्वे इति अशीति (८०) वर्षाणि सर्वायुः प्रपाल्य श्रीमहावीरात् चतुःषष्टिवः सिद्धः । यस्मिन् मुक्तिं गते एतानि दश
For Private and Personal Use Only