SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आयाति । तदा लवणसमुद्रजलमध्ये वापञ्जरं कृत्वा षण्मासी स्थितः । ततो ग्रीवा बहिः निष्कासने चक्रेण - मारितः। पुनरपि अनेके सुभटाः परस्परं युद्धं कुर्वन्ति स्म । पुनः सूर्ययश:-सोमपशसोः युद्धे जायमाने सुर्ययशाः कटकमुल्लङ्घ्य बाहुवलिसमीपे प्राप्तः उवाच-"आगच्छ बहिः, गृहाण शस्त्राणि, मारय मां । ततो बाहुबलिरपि विहस्य पाह-"रे पुत्र! तव पराक्रमेण अहं तुष्टोऽस्मि, इक्ष्वाकुवंशे ईशा एव साहसवन्तो भवन्ति । परं मम मुष्टिः दुर्धरा अस्ति । 'त्वं याहि याहिं' इति देवैः वारितः। एवं द्वादशवर्षाणि युद्धं जातं, न कोऽपि हारितो, न कोऽपि जितः, परं मनुष्याणां संहारो जातो, रुधिरनद्यो व्यूढाः। ततो महाऽनर्थ जायमानं दृष्ट्या सौधर्मेन्द्र-चमरेन्द्राभ्यां भरतः पूर्व प्रतिबोधित:-"भो! ऋषभखामिना जगतः सृष्टिः कृता, भवता तु जगतः संहारः प्रारब्धः ।" ततो भरतेनोक्तं-"अहं किं करोमि ? मम चक्रं न प्रविशति । बाहुबलिः आज्ञा न मन्यते, एवं चेत् तर्हि द्वाभ्यां एव योद्धव्यं, किमन्पसंहारेण?" ततो भरतेन अङ्गीकृतं । ततो द्वावपि इन्द्री बाहुबलिसमीपे गती । विज्ञसिस्तुतिकरणपूर्व प्रोक्तं अङ्गीकृतं च बाहुबलिनापि। ततो भरतेन वामa हस्तकनिष्ठाङ्गुलिचालनात् खातिकापरतोऽन्योन्यशृङ्खलाबद्धकटकापकर्षणात् स्ववलपरीक्षा कृता । अथ इन्द्रादिदेवैः पञ्चयुद्धानि स्थापितानि-दृष्टियुद्ध १ बाग युद्ध २ बाहुयुद्ध ३ मुष्टियुद्ध ४ दण्डयुद्धानि ५, एतैः पञ्चयुद्धैः यो जितः स जितो ज्ञेयः । अत्रान्तरे देवैः श्रीआदीश्वरशपथं दत्वा द्वयोः सैन्यं दूरे स्थापितम् ॥ अथ सुगन्धपानीयसंसिक्ते विकीर्णपञ्चविधपुष्प रणे द्वावपि धृतसंनाही मुकुटटोपविराजमानौ संमुखी समा For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy