SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृतबन्दिजनजयजयारवः चचाल । परं मागें किं कुर्वन् ? | सेनया सरोवराणि शोषयन्, गजानां मदजलै स्थलमपि सरः कुर्वन् , बहुलीदेशसीनि गतः सैन्यं च तत्र स्थापितवान् । ततो बाहुबलिरपि भरतं समागतं श्रुत्वा स्वसैन्यं लात्वा दत्तप्रयाणढक्का सम्मुखं समागत्य स्थितः कियदन्तरे । अथ प्रथमं भरतचक्रवर्ती श्रीऋषभदेवं पूजयित्वा वज्रसंनाहं [यगतरं] धृत्वा यक्षसहस्राधिष्ठितं हस्तिरनं समारोह । पृष्टतश्च सपादकोटिपुत्राः, एवं प्रपौत्रादयः, एवं सुभटकोटिपरितः सुषेणसेनानी, ततः ८४ लक्षहस्तिना, ८४ लक्षा अचार, ८४ लक्षा स्थाः, ९६ कोटिपदातयो बहवो विद्याधरा यक्षाः किन्नराश्च चलन्ति स्म । ततो भरतेन रणपट्ट मस्तके बध्वा सुषेणसेनानीः अग्रे कृतः। ततो बाहुबलिरपि श्रीऋषभदेवं पूजयित्वा, सम्यक् प्रणम्य च वज्ररत्नमयं संनाहं परिधाय, सर्व जगत् तृणवत् मन्यमानो भद्रहस्तिनं समारुरोह । पृष्ठतः त्रीणि लक्षाणि पुत्राः, एवं प्रपौत्रा, द्वादशसहस्त्रराजानो बहवो विद्याधराः सुभटाः पदातयश्च चेलुः । ततो पाहुपलिनाऽपि निजपुत्रः सिंहरथः सेनानीः कृतः। ततो द्वयोः सैन्ययोः सम्मुखं चलतोः पृथिवी कम्पिता । तारामण्डलं क्षुभितं, समुद्राः समुच्छलिताः। भरतसैन्ये १६ षोडशलक्षरणतुराणि वाद्यन्ति । एवं बाहुबलिसैन्येऽपि कियन्ति लक्षाणि उभप* सैन्ययोः 'सिन्धूडारागे आलाप्यमाने स्वामिभ्यां बहुपुत्कारे क्रियमाणे युद्धं लग्नं । अश्ववारैः समं अश्ववाराः लनाः, एवं गजारूढः गजारूढाः, रथिभिः समं रथिनः, पदातिभिः समं पदातयः, राजभिः समं राजानः, खेचरैः समं खेचराः, एवं न्याययुद्धे जायमाने सुषेणसेनानीः सिंहरथं सम्मुखं आगच्छन्तं दृष्ट्वा एवं अघोचत For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy