SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir सह चलितः । अग्ने चक्ररत्नं सहस्रदेवाधिष्ठितं प्रस्थितं यावती भुवं गत्वा तिष्ठति, तावत् योजनानि भरतसैन्यं चलितं, तदनुक्रमेण भरतो महीं षट्खण्डां षष्टिसहस्रवर्षेः साधयामास । तत्र गङ्गादेव्या सह वर्षसहस्रं विषयसुखानि बुभुजे । नमिविद्याधरपुत्री नवीनस्त्रीरत्नोत्पत्तौ । षष्टिवर्षसहस्राणि सुन्दर्या आचाम्लानि कृतानि, तेन धुर्वला, ततो भरतेन अनुज्ञाता सती सुन्दरी साध्वी जाता। भरतो अयोध्यायां समेतः तस्मिन प्रस्तावे शस्त्रागारस्य अधिकारिणा विज्ञप्तं-“हे स्वामिन् ! तव बान्धवाः तव आज्ञा न मन्यन्ते, ततः चक्ररत्नं आयुधशालायां न प्रविशति ।” ततो भरतो दूतैः ज्ञापयामास-"यदि भवतां राज्यवाञ्छाऽस्ति तदा आगत्य मम सेवां कुरुत ।" तदा तैः अष्टानवतिकुमारैः विचारित-"तातेन अस्माकं राज्यं दत्तं, किमर्थ भरतं सेवामहे! ।" ततः तातपाः गताः, स्वामिना च अङ्गारकारकदृष्टान्तेन वैतालिकाध्ययनश्रावणेन प्रतियोध्य शिष्याः कृताः । तथापि चक्ररत्नं न प्रविशति, ततो भरतो मुख्यमन्त्रिणं विश्वम्भरं प्राह । ततः सोऽपि प्रणम्य प्राह-“हे खामिन् ! सुरासुरनरेष्वपि तवाऽऽज्ञां यो न मन्यते स कोऽपि नास्ति, परं तव लघुभ्राता गर्वपर्वतो महाबली बाहुबली वर्तते, यस्य दोर्दण्डप्रचण्डप्रहारेण पर्वता अपि चूर्णीभवन्ति। ततो भवता समूलत एव छेदनीयो व्याधिवत् । ततो भरतेन सुवेगनामा दूतो बाहुबलिं प्रति प्रेषितः। प्रथमतः चलनसमये वस्त्रं कण्टके लग्नं १, ततो रथः स्खलितः २, संमुखं छिक्का जाता ३, दक्षिणे रासभोवीत् ४ इत्यादिभिः अपशकुनै वार्यमाणोऽपि महाटवीं समुल्लङ्घ्य गतो बहुलीदेशसीमस्थाने। ततो मार्गरजोधूसरं श्रमाकुलं Fer Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy