SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यित्वा स्वजनं आदाय दक्षिणश्रेणेः नमिः राज्यं कुरुते स्म । उत्तरश्रेणी च विनमिः राज्यं कुरुते स्म इति नमिविनमिसम्बन्धः || एकदा स्वामी विहरन् बहुलीदेशे तक्षशिलां नगर्या आगतः, तत्र सन्ध्यायां उद्याने कायोत्सर्गेण स्थितः । तत्र उद्यानपालकेन श्रीबाहुलेः प्रभोः आगमनं कथितं तस्मै पारितोषिकं दानं दत्त्वा, बाहुबलिः विचारितवान्-"साम्प्रतं त्रीणि लक्षाणि पुत्राः तथैव प्रपौत्रादयः परिवारो मिलितो नास्ति ।” ततः प्रभाते 'महत्या विच्छित्त्या वन्दनाय गमिष्यामि' इति सन्ध्यसमये न गतः । ततः प्रभाते सर्वपरिवारं मेलयित्वा नगरीशोभां कृत्वा गजारूढो गतो भगवद्वन्दनार्थं, परं श्रीभगवान् वायुरिव अप्रतिबद्धविहारि स्वात् सन्ध्यायामेव क्षणं स्थित्वा विहृत्य गतो दूरदेशे । ततो बाहुबलिः तत्र श्रीभगवन्तं अदृष्ट्वा महाखेदं चकार । कर्णयोः अङ्गुलिं क्षित्वा उच्चैः रुरोद । सम्प्रदायात् एवं श्रूयते तत्र “बाबा आदम" इति वदन्तो "यांग” ददति । ततो चांगप्रवृत्तिः । ततो बाहुबलिः खामिभक्त्या यत्र खामी कायोत्सर्गे स्थितः तन्त्र स्थाने धर्मचक्रं नाम अष्टयोजनविस्तीर्ण एकयोजनोवं सहस्रारं रत्नमयं पीठं चकार । तदुपरि भगवतः पादुके स्थापयित्वा अयं श्रीभगवानेव इति बुद्ध्या ननाम । लोका अपि सर्वे तथैव महिमां चकुः । इति तक्षशिलानगर्यां बाहुबलिसम्बन्धः ॥ अथ श्रीभगवतः कियता कालेन कस्मिन् नगरे केन पारणं वत्तं तत्स्वरूपं कथ्यते । तथाहि अथ श्रीभगवान् वर्षं यावत् आहारं विना स्थितः परं मेरुवत् अप्रकम्पो अदीनमनाः एकदा विचरन् For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy