SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं XOXOX BX व्या० ७ ॥ १९६ ॥ www.kobatirth.org अस्येति विमलवाहनो नाम राजा कृतः । अथ कालवशात् कल्पवृक्षाणां हानिर्जाता, ततः परस्परं कलहे कल्पलता जायमाने विमलवाहनो राजा जातिस्मृतित्वात् नीतिज्ञः कल्पवृक्षान् विभज्य दत्तवान् । अपराधिनां च 'ह' इति दण्डनीतिं कृतवान् । अपराधे कृते 'ह' इति उक्ते अपराधी जानाति मम सर्वखं अपहृतमिति । तस्य विमलवानस्य चन्द्रयशाः प्रिया नवशतधनुः प्रमाणं (९००) शरीरं ॥ इति प्रथमः कुलकरः ॥ १ ॥ तस्य विमलवाहनस्य पुत्रः चक्षुष्मान् चन्द्रकान्ता भार्या, अष्टशतधनुः प्रमाणं [ ८०० ] शरीरं तस्यापि 'ह' इति दण्डनीतिः ॥ इति द्वितीयः कुलकरः ॥ २ ॥ तस्य पुत्रो यशखी सुरूपा भार्या सप्तशतधनुः प्रमाणं [ ७०० ] शरीरं स्तोकापराधे 'ह' इति महापराधे च 'म' इति दण्डनीतिद्वयं कृतवान् ॥ इति तृतीयः कुलकरः ॥ ३ ॥ तस्य पुत्रः अभिचन्द्रः प्रतिरूपा भार्या, सार्धषट्शतधनुः प्रमाणं ( ६५० ) शरीरं तस्यापि हकार - मकारेति दण्डनीतिद्वयं ॥ इति चतुर्थः कुलकरः ॥ ४ ॥ तस्य पुत्रः प्रसेनजित्, चक्षुःकान्ता भार्या, षट्शतधनुः प्रमाणं ( ६००) शरीरं हकारमकारदण्डनीतिकथनेऽपि न निवर्तन्ते कलहात् युगलिनः ततो ह १म २ धिक ३ दण्डनीतिश्रयं कृतवान् ॥ इति पञ्चमः कुलकरः ॥ ५ ॥ तत्पुत्रो मरुदेवः, श्रीकान्ता भार्या, सार्धपञ्चशतधनुः प्रमाणं ( ५५० ) शरीरं 'ह' १ 'म' २ 'धिक' ३ दण्डनीतित्रयं ॥ इति षष्ठः कुलकरः ॥ ६ ॥ तस्य पुत्रो नाभिराजा, मरुदेवी भार्या, सपादपञ्चशतधमुः प्रमाणं ( ५२५ ) शरीरं 'ह' १ 'म' २ 'धिक' ३ दण्डनीतित्रयं ॥ इति सप्तमः कुलकरः ॥ ७ ॥ इति सप्तकुलकरस्वरूपं कथितम् ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only कुलकर स्वरूप कथनं, च्यवन कल्याणक च ॥ १९६ ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy