SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०७ आदिनाथरस त्रयोदश भवाः ॥१९४॥ सर्वेऽपि कृमयः शीतलत्वात् रत्नकम्बले लग्नाः । ततः तान् वैद्यो गोकलेवरे अक्षिपत्। ततः साधु आश्चास्य गोशीर्षचन्दनेन देहं लिम्पन्ति स्म । प्रथमे अभ्यते त्वग्गता जीवा निर्गताः, द्वितीये अभ्यङ्गे मांसस्थाः, तृतीये अभ्यङ्गे अस्थिस्थाः कृमयो निर्गताः । ततः संरोहिण्या औषध्या साधु सजं चकार, जातः साधोः समाधिः, उपार्जितं महापुण्यं, षभिरपि रत्नकम्बलगोशीर्षचन्दनयोः विक्रयेण चैत्यं कारितं । ततः साधुसमीपे षड्भिरपि मित्रैर्दीक्षा गृहीता । चारित्रं प्रतिपाल्य जन्म सफलं चक्रुस्ते ॥ इति नवमो भवः ॥९॥ ततस्ते कालं कृत्वा षडपि द्वादशे अच्युतदेवलोके देवा जाताः ॥ इति दशमो भवः॥१०॥ ततो देवलोकात् च्युस्वा, जम्बूद्वीपे महाविदेहक्षेत्रे पुष्कलावतीबिजये पुण्डरी किण्यां नगर्या तीर्थङ्करो बज्रसेनो राजा, धारिणी राज्ञी, तयोः पञ्च-पुत्राःजाताः। तत्र वैद्यजीव आनन्दो वज्रनाभनामा चक्रवर्ती जातः१, राजपुत्रो महीधरजीवो बाहुनामा जातः २, मत्रिपुत्रः सुबुद्धिजीवः सुबाहुनामा जातः ३, श्रेष्टिपुत्रो गुणाकरजीवः पीठमामा जातः ४, सागरसार्थवाहपुत्रः पूर्णभद्रजीवो महापीठो नामा जातः ५, षष्ठः केशवश्रीमतीजीवः सुपशोनामा राजपुत्रको जातः ६, स चजनाभस्य चक्रवर्तिनः सारथिः जातः, अथ वज्रसेनतीर्थकरो वज्रनाभं पुत्र राज्ये स्थापयित्वा, लोकान्तिकदेवैः प्रतियोधितः सांवत्सरिकं दानं दत्त्वा, दीक्षा ललौ, वज्रनाभो राजा जातः। चतुरो भ्रातॄन लोकपालानिय अकरोत्, सुयशोनामानं राजपुत्रकं स्वकीय सारथि अकरोत् । श्रीवज्रसेनतीर्थकरस्य केवलज्ञानमुत्पन्नं, तदैव बज्रनाभस्य चक्ररत्नं समुत्पन्नं । ततः पूर्व श्रीभगवन्तं ततः चकरसं च पूजयित्वा, ॥१९४॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy