SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०५ भगवत आयु:सङ्कलना ॥१५९॥ अंकनिसपणे पणपन्नं अज्झयणाई कल्लाणफलविवागाई पणपन्नं अज्झयणाई पावफलविवागाई छत्तीसं च अपुट्ठवागरणाई वागरित्ता पहाणं नाम अज्झयणं विभावेमाणे २ कालगए विइक्कंते । समुज्जाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिबुडे सबदुक्खप्पहीणे ॥१४॥ व्याख्या-"तेणं कालेणं" तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः त्रिंशद्वर्षाणि आगारवासे उषित्वा, सार्धषण्मासाधिकानि द्वादशवर्षाणि छद्मस्थपर्यायं प्रतिपाल्य, सार्धषण्मासन्यूनानि त्रिंशद्वर्षाणि केवलपर्यायं प्रतिपाल्य, द्विचत्वारिंशद्वर्षाणि दीक्षां प्रतिपाल्य, द्वासप्ततिवर्षाणि (७२) सर्वमायुः प्रतिपाल्य, "खीणे सति" वेदनीयायुर्नामगोत्रे अस्यां अवसर्पिण्यां दुषमसुषमायां बहुव्यतिक्रान्तायां त्रिषु वर्षेषु सार्धाष्टमासेषु च शेषेषु नवाशीतिपक्षेषु अवशिष्टेषु इत्यर्थः । मध्यमपापायां नगर्या हस्तिपालस्य राज्ञो रजसभायां, एकः कर्मसहायविरहात् अद्वितीयः एकाकी न ऋषभादिवत् दशसहस्रादिवृतः, अपानकेन षष्ठेन तपसा खाति-4 नक्षत्रे चन्द्रेण सह योगं उपगते प्रत्यूषकाललक्षणो योऽवसरः समयः तस्मिन् , पद्मासनस्थः संगतः पर्यकःपद्मासनं तत्र निषण्णः-उपविष्टः । पञ्चपश्चाशद् अध्ययनानि कल्याणफलविपाकानि । पञ्चपञ्चाशद् अध्ययनानि च पापफलविपाकानि, षट्त्रिंशद् अपृष्ठव्याकरणानि प्ररूपयित्वा-कथयित्वा पुण्यफलविपाकाध्ययने प्रधानं नाम अध्ययनं मरुदेवाध्ययनं विभावयन्-अरूपयन् कालगतः इति । सर्वदुखपहीणः शेष सुगमम् ॥ ॥१५९॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy