SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्प०२६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाञ्छति ?, सूत्रार्थी को हारं त्रोटयेत् ?, लोहार्थं समुद्र को नौभङ्गं कुर्यात् ?, भस्मनिमित्तं कः चन्दनं दहेत् ?, ठिकरीकृते कः कामकुम्भभङ्गं कुरुते ? । तत अत्यासन्नगमने श्रीभगवता गौतमो भाषितः - "हे इन्द्रभूते ! स्वागतं तव वर्तते ।" ततो गौतमेन चिन्तितम् - "अहो अयं मम नामाऽपि जानाति, अथवा जगति प्रसिद्धस्य मम नाम को न जानाति । परं अयं जानाति सृष्टेः वाक्यैः संतोषयामि, यथा वादं न करोति । परं नाऽहं तुष्यामि इत्थं तत् न कपित्थं यद्वातेन आन्दोलितं पतेत् । परं यदि मम मनोगतं संशयं जानाति छिनत्ति तदा मे विस्मयो भवेत्, सर्वज्ञं च जानामि ।" ततः श्रीभगवता प्रोक्तं- "हे गौतम ! तब संशयो वर्तते"जीवोऽस्ति न वा ? । परं त्वं वेदपदानामर्थं न जानासि ।" इत्युच्यमाने श्रीवीरध्वनिः कीटक शुशुभे ? | समुद्रो मध्यमान इव, वहन् गङ्गाप्रवाहो वा, आदिब्रह्मणो ध्वनिर्वा, वेदपदानि इमानि "बिज्ञानघन एव एतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येव अनुविनश्यति, न प्रेत्यसंज्ञाऽस्तीति" जीवाभावः त्वया स्थाप्यते, परं काका व्याख्यानेन प्रेत्यसंज्ञास्ति, अपि तु अस्त्येव इति जीवसत्ता । पुनरपि "स वै अयमात्मा ज्ञानमयः चैतन्यमयो वै आत्मा मनोमयो वै आत्मा वाङ्मयः चक्षुर्मयः श्रोत्रमयः प्राणमय आकाशमयो वायुमयः तेजोमयो अपोमयः पृथ्वीमयः क्रोधमयो हर्षमयो धर्ममयोऽधर्ममयो वै आत्मा ददद इति दकारत्रयो वेत्ति । दानं दया दमं चेति स वै आत्मा यथाचारी तथा भवति, साधुकारी साधुः भवति, पापकारी पापो भवति, पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा भवति ।” इति यजुर्वेदोपनिषदि ऋक इति जीवसत्ता । पुनः इदं शरीरं For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy