SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir "मांसमिश्रं ।” तया गोशालो भोजितः। स च आगत्य भगवतः कथयामास-"मया पायसं भुक्तं।" भगवता प्रोक्तं-"तत् मांसमिश्रं अस्ति ।" ततो भगवतो वचनेन वमने कृते तथैव पुष्पितसूक्ष्ममांसखण्डे दृष्टे । रुष्टेन गोशालेन प्रोक्तं-"रे पापिष्ठे ! तव पाटको मम स्वामितपःप्रभावात् दह्यताम्" तथैव दग्धश्च । तत एकदा बहुकर्मनिर्जरार्थ लाटदेशे गतः । अन्तरा द्वौ चौरौ मिलितो, खरं उत्पाट्य मारणाय धावितो, प्राणान्तं उपसर्ग ज्ञात्वा इन्द्रेण हतौ। पुनः स्वामी हरिद्रवृक्षस्य अधोऽवतस्थे । पथिकप्रज्वालिताग्निना कायोत्सर्गस्थस्य भगवतः पादौ दग्धौ । भगवान् न अपसरति स्म, गोशालस्तु नष्ट्वा गतः ४ ॥ ततो भद्रिकायां खामी चतुर्मासक्षपणेन पञ्चमचतुर्मासी स्थितः। एकदा कूपिकसंनिवेशं गतः, चौरिक इति गृहीतो, विजयया श्रीपार्श्वशिष्यया स्वामी मोचितः। गोशालश्च पृथक् भूतः, परं यत्र यत्र याति तत्र तत्र मारिः मस्तके पतति । ततः पुनः विचारितं-"वरं खामिनैव साधु" ततो मार्गयितुं लग्नः, स्वामी वैशाल्यां गतः। तत्र लोहकारशालायां श्रीभगवान् कायोत्सर्गे स्थितः। ततः षण्मासान्ते एको लोहकारः षण्मासरोगविनिर्गमने नीरोगः सन् उपकरणानि लात्वा, शालायां आगतः खामिनं दृष्ट्वा अमङ्गलं इति ज्ञात्वा, घनेन हन्तुं प्रवृत्तः। तावता इन्द्रेण आगत्य लोहकारो हतः, षण्मासान्ते गोशालोऽपि मिलितः। ततः पुनर्भद्रिकायां षष्ठचतुर्मासी स्थितः। तत्र अष्टमासी यावत् श्रीभगवान् निरुपसर्गोऽभवत् ।। ततः सप्तमचतुर्मासी आलभिकायां देवकुले स्थितो, गोशालो बलदेवमुखे लिङ्गं लगयति । ततः पूजकादिलोकैः कुहितः। एकदा नवपरिणीताया For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy