SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KeXOXOXOXOXOXOKIXEXO-XII श्रीभगवन्तं दृष्ट्वा संतुष्टाः सन्तो महिमानं चक्रुः। तत्र श्रीपार्श्वनाथस्य शिष्याभाषो गृहस्थ उत्पलनामा श्रीभगवतो महिमार्थ स्वामिदृष्टनवखनानां फलं कथयति स्म । तथा हि-“हे स्वामिन् ! त्वं तालपिशाचदर्शनात् मोहपिशाचं निराकरिष्यसि १ श्वेतकोकिलातः शुक्लध्यानं प्राप्स्यसि २। विचित्रकोकिलातः द्वादशाङ्गीरूपं प्रवचनं कथयिष्यसि । पुष्पमालाद्वयस्वप्नविचारं न जानामि ।” ततः सिद्धार्थेन प्रोक्तम्-"यति-श्रावकधर्म प्ररूपयिष्यसि ४ । गोवर्गतः चतुर्विधसंघस्थापनां करिष्यसि ५। सरोवरदर्शनात् सरोवरवत् देवजनहंससेव्यो भविष्यसि ६।सागरतः संसारसागरं तरिष्यसि । सूर्यात् केवलज्ञानं लप्स्यसे ८। अन्तरतो यशो लप्स्यसे । मेरुतो धर्मे मेरुवत् निष्पकम्पो भविष्यसि १० । ततः श्रीभगवान् मोराकसंनिवेशस्य बहिरुद्याने कायोत्सर्गे तस्थौ । ततः सिद्धार्थो भगवतः पूजानिमित्तं प्रभोः मुखे अवतीर्य, गोपानां अग्रे निमित्तं प्राह-"भो गोप: त्वया खमे अद्य मोदका भक्षिताः, पुनः प्रभाते कङ्गुकूरं भुत्तवा क्षेत्रे गच्छता भवता सो दृष्टः, क्षेत्रे च त्वं गमिष्यसि" इत्यादि बहु सत्यं ज्ञात्वा, गोपाः प्रभोमहिमानं चक्रुः । लोकानां च पुरस्तात् वदन्ति स्म-"अयं ज्ञानी तपस्वी च।” ततः केनापि पृष्टं-"अत्र अच्छन्दको निमित्ती वसति, तस्य कीदृशं ज्ञानं ?" ततः सिद्धार्थेन प्रोक्तं-"न किंचित् ।” ततो अच्छन्दकेन पाखण्डिना जातद्वेषेण तृणं अंगुलीभ्यां गृहीत्वा पृष्टं-"भो सिद्धार्थ : इदं तृणं भवयते न वा ?।" सिद्धार्थेन प्रोक्तम्-"नेति” । ततः श्रीभगवतो वचनस्य अलीककरणार्थं भञ्जनाय उद्यतः। तदा शक्रेण अङ्गुली छिन्ना । अच्छन्दकश्च द्वेषं वहन् उपसर्गान् करोति । तदा सिद्धार्थेन लोकानां For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy