SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir केचित् ४, कण्टके लग्नत्वात् खसन्ततेः कषायबाहुल्यात् कण्टकमायतां आकलय्य निर्ममतया पुनः न जग्राह । ततो विप्रोऽपि कृतकृत्यमात्मानं मन्यमानः संपूर्णमनोरथः तूर्णकारपार्श्वे खंडद्वयं सन्धयित्वा तूर्णकारस्थापि खेप्सितं दत्त्वा, स्वयं सोमविप्रो यावज्जीवं सुखी बभूव इति ॥ [अयं सम्बन्धः कौतुकार्थ विस्तरतया लिखितोऽस्ति । नवाधिकवाचनायां वेलायां सत्यां वाच्यः, नो चेत् नहि । ] | तथा पाणिपतदाहिकः-पाणिपात्रः, स्वामी हि सप्रावरणधर्मव्यवस्थापनार्थ यथा [देवदृष्यं] वस्त्रं गृहीतवान् । तथा प्रथमपारणकं सपात्रधर्मज्ञापनार्थ पात्रे एवाऽकरोत् “तेण परं अचेलए पाणिपडिगहिए"। [विहितवान् ] ततःपरं पाणिपात्र इत्याम्नायः । श्रमणो भगवान् महावीरः साधिकानि द्वादशवर्षाणि नित्यं व्युत्सृष्टकायः-परिकर्मवर्जनात्, पुनः त्यक्तदेहः परीषहसहनात्, ये केचन उपसर्गा उत्पद्यन्ते दिव्या वा मानुष्या वा तिर्यक्संबंधिनो वा तान् सम्यक् सहते भयाभावेन, क्षमते क्रोधाभावेन, तितिक्षते दैन्यस्य अनवलम्बनेन, अध्यासयति अविचलकायतया । पुनः श्रीभगवान् दीक्षानन्तरं कीदृशो जातः?, तदाह तए णं समणे भगवं महावीरे अणगारे जाए, ईरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलजल्लसंघाणपारिट्ठावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते वयगुत्ते कायगुत्ते गुत्ते गुतिदिए गुत्तबंभयारी अकोहे For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy