SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्सचं कुर्वन्ति ?, तमाह पूर्व नन्दिवर्धनो राजा अष्टोत्तरसहस्त्र १००८ सुवर्णमय १ रूप्यमय २ मणिमय ३ सुवर्णरूप्यमय ४ सुवर्णमणिमय ५ रूप्यमणिमय ६ स्वर्णरूप्यमणिमय ७ सन्मयान् ८ कलशान् निष्क्रमणाभिषेक सामग्रीनिमित्तं कारयन्ति, एवं इन्द्रा अपि आभियोगिकदेवपार्श्वात् सुवर्णादिकलशान् तावन्तः अष्टधा कारयन्ति, ते दिव्याः कलशाः नन्दिवर्धन कारितकलशेषु दिव्यानुभावेन प्रविष्टाः, ततोऽतीव नन्दिवर्धनकलशाः शोभन्ते स्म । ततो नन्दिवर्धनो राजा भगवन्तं खर्णसिंहासने पूर्वाभिमुखं निवेश्य, देवानीतक्षीरोदनीरैः तीर्थमृत्तिकाभिः सर्वकषायैः च अभिषेकं करोति । एवं इन्द्राया अपि देवाः तैः स्वकीयैः कलशैः अभिषेकं कृतवन्तः । ततो देवा भृङ्गारदर्पणादीनि हस्ते गृहीत्वा भगवदये जयजयशब्दं प्रयुञ्जानाः तिष्ठन्ति । ततो देवसम्बन्धिचन्दनेन गात्रं अनुलिप्तं, कल्पवृक्षपुष्पमालाः परिधापिताः, एकं श्वेतं वस्त्रं परिधापितं यस्य मूल्यं लक्षम् । ततो मुक्कुटतिलककुण्डल केयूरहार कदककटिसूत्रमुद्रिकादिसर्वाभरणैः सर्व शरीरं विभूषितम् ॥ ततो नन्दिवर्धनेन राज्ञा चन्द्रमभानाम्नी शिविका आनीय स्थापिता, सा कीदृशी ? इत्यादि । अनेकस्तम्भशतसन्निविष्टा मणिकनकविचित्रा पञ्चाशद्वनुदीर्घा, पञ्चविंशतिधनुर्विस्तीर्णा, षट्त्रिंशद्धनुरुचा । एतस्याः शिविकाया मध्ये देवानीतशिबिका प्रविष्टा । तेन दित्र्यानुभावेन अतीव सुन्दरा जाता । तस्याः शिविकाया मध्ये स्वर्णसिंहासनं स्थापितं । तत्र श्रीभगवान् पूर्वाभिमुखः उपविष्टः प्रभोदक्षिणतः कुलमहत्तरिकाहंसलक्षणं पटशादकमादाय तिष्ठति । वामपार्श्वे प्रभोः अम्बधात्री व्रतोपकरणमादाय तिष्ठति । पृष्ठे च एका स्फारसारशृङ्गारा तरुणी-स्त्री For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy