SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता च्या० ५ ।।१२० ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समस्तमिश्रज्ञातिकुटुंबादीन् भोजनवस्त्राभरणकैसरछंटन तिलककरणादिना सत्कुर्वाते । पुनः लेख शालिकानां दानार्थ, वरसोला साकर खांड अखोड गुंदवडा द्राक्ष खारिक टोपरा खजूर सिंघोडा अखोड बदाम चारउली चारबी फलहाल नालेर सोपारी सोनाना खडिया रत्ननावरतणां रूपानी पाटी फूलफल पानना - बीडाप्रमुखनानाविधवस्तूनि सार्धं लात्वा, भगवतः स्नानं कारापयित्वा प्रधानवस्त्राणि परिधाप्य, स्वर्णरत्नाभरणानि मुकुटकुण्डलतिलकादीनि यथास्थाने परिधाप्य, हस्तिस्कन्धे भगवन्तं निवेश्य, मस्तकघृतछत्रवीज्यमानचामरगीयमानगीतदीयमानदानवाद्य मानविविधनिर्घोषनृत्यनाटकादिविच्छित्त्या उपाध्यायशालाद्वारदेशे भगवान् आनीतः । तावता पाठकब्राह्मणेन चिन्तितम् - " इतः पूर्व मम शालायां सामान्यछात्राः पठनाय आगताः, परं अद्य तु राज-पुत्रो मम समेतः । ततो गर्वेणोः आसनं स्थापयित्वा स्वयं विविधवस्त्राणि दिव्याभर णानि परिधाय उपविष्टः । अत्रान्तरे इन्द्रस्य आसनं चलाचलं जातं । किंवत् ? । वातकम्पितध्वजावत्, पुनः समुद्रसंक्रान्तचन्द्रवत् पुनः मत्तहस्तिकर्णवत् पुनः कुलटाचित्तवत् पुनः मूषातापित हेमवत् । ततः इन्द्रः अवधिना ज्ञात्वा आगत्य, प्रभोः पुरः माह "अहो ! मात्रादीनां मोहः !, भगवन्तो हि विनापि अध्ययनं विद्वांसो भवन्ति । नहि आम्रे तोरणबन्धनं, नापि सुधाया माधुर्यकरणं, नच सरखत्या भाले [ भोलामींडी ] पाठनं नहि चन्द्रस्य घवलीकरणं सम्भवति । परं भवन्तु मातापित्रोः मनोरथाः पूर्णाः ।” ततः इन्द्रो वृद्धब्राह्मणरूपं कृत्वा, श्रीभगवन्तं उच्चैः योग्यासने उपवेश्य उपाध्याय मनोगतान् सन्देहान् भगवन्तं For Private and Personal Use Only लेखशालागमनं | ॥ १२० ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy