SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या-"पुद्धिपि ” भो देवानुप्रियाः! पूर्वमपि आवयोः एतस्मिन् दारके बालके कुक्षौ गर्भस्थे सति * अयं एतादृशो अभ्यर्थितः। चिन्तितः मनोरथः समुत्पन्नोऽभूत्-यत्मभृति आवयोः एष दारकः कुक्षौ गर्भ त्वेन व्युत्क्रान्तः, तत्मभृति आवां हिरण्येन वर्धापहे, सुवर्णेन वर्धावहे, धनेन वर्धावहे, धान्येन वर्धावहे, पुनः स्वापतेयद्रव्येण वर्धावहे, यावत्प्रीतिसत्कारेण अतीव वर्धावहे, सामन्तादयो राजानोऽपि वशं आगताः, ततो *यदा आवयोरेष दारको जातो भविष्यति, तदा आवां एतस्य दारकस्य एतदनुरूपं गुण्यं गुणनिष्पन्नं पूर्व व्याख्यातार्थ सार्थकं नाम करिष्याव: "वर्धमानः" इति । यतः सर्वैः प्रकारैःआवां वृद्धि प्राप्ती, ततः आवयोरद्य मनोरथसंप्राप्तिः जाता। ततो भवतु कुमारो वर्धमाननाम्ना, ततः श्रमणस्य भगवतो महावीरस्य मातापितरौ "श्रीवर्धमानः" इति नाम कुरुतः। अथ भगवतः सार्थकं नामवयं कथयन्ति, तत्राहसमणे भगवं महावीरे कासवगुत्ते णं, तस्स णं तओ नामधिज्जा एवमाहिजति, तं जहाअम्मापिउसंतिए वद्धमाणे, सहसंमुहआए समणे, अयले भयभेरवाणं परीसहोवसग्गाणं खंतिखमे पडिमाण पालगे धीमं अरइरइसहे दविए वीरिअसंपन्ने देवेहिं से नाम कयं 'समणे भगवं महावीरे॥१८॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy