SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजदेयद्रव्यवर्जन कल्पसूत्रं युक्त इति गम्यम् । एवं "महया जुईए” युक्तिः (इत्यत्र) इष्टवस्तुघटनात्, द्युतिः वा दीप्तिः आभरणादीनां कल्पलता तया । पुनः महता बलेन सैन्येन, पुनः महता वाहनेन शिविकावेसरादिना, पुनः महता समुदयेन संगताव्या०५ भ्युदयेन निजपरिवारादिसमुदयेन वा, पुनः महातुर्याणां यमकसमकं-युगपद्वादितेन ध्वनितेन । पुनः शंखः= ॥११३॥ कम्युः, पणवो मृत्पडहः, भेरी-ढक्का, 'दमामा' इति नाम्नी, झल्लरी-चतुरङ्गुलनालिः करटिसदृशी वलयाकारा उभयतो नद्धा इत्यन्ये । खरमुखी काहला, हुडुक्का-तिविलितुल्या, मुरजो-मर्दला, मृदङ्गो-मृन्मयः, दुन्दुभिः देववाद्यम् , एतेषां निर्घोषो-महाध्वनिः, नादितं च प्रतिशब्दः तद्रूपो योरवः तेन । पुनः कीदृशी स्थितिपतितां? "उस्सुक" उच्छुल्कां उन्मुक्तशुल्का, शुल्कं-विक्रेतव्यभाण्डं प्रति मण्डपिकायां राजदेयं द्रव्यम् । पुनः कीदृशी स्थितिपतिताम् ?। उत्करां-उन्मुक्तकरां, करोगवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यम्, उन्मुक्तं कृष्टं कर्षणं यस्यां, लभ्येऽप्याकर्षणनिषेधात्, अथवा उत्कृष्टां प्रधानाम् । पुनः कीदृशी स्थितिपतिताम् || * अदेयां विक्रेयनिषेधेन केनापि न कस्यापि देयम् , द्रव्येन विना दातव्यम् । पुनः कीदृशी स्थितिपतिताम् ? | अमेयां क्रयविक्रयनिषेधादेव । पुनः कीदृशी स्थितिपतिताम् ?। अभटप्रवेशां, न विद्यते भटानां राजाज्ञादायिनां भट्टपुत्रादीनां प्रवेशः कुटुम्बिगृहेषु यत्यां सा ताम् । पुनः कीदृशी स्थितिपतिताम् ? । अदण्डिमकोदण्डिमं दण्डेन निर्वृत्तं दण्डिम, कुदण्डेन निवृत्तं कुदण्डिमं राजद्रव्यं तद्यमपि नास्ति यस्यां सा ताम् । XXXXXXXXXXX For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy