SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०५ इन्द्रकृतजन्मोत्सवः ॥१०९॥ XXXXXXXXXXXX पापमलं क्षालयन्तीव ३॥ ततः सर्वे देवाः कुम्भान् तीर्थजलभृतान् तीर्थङ्करोपरि यावत् ढालयन्ति तावत् इन्द्रस्य संशय उत्पन्न:-'अहो! अयं याल एतावतां कलशादीनां नीरधारां कथं सहिष्यति ? मा प्लावनं | भवतु ।' तत इन्द्रेण क्षणं तेषां कलशढालनं निवारितम् । ततो भगवता अवधिज्ञानेन इन्द्रस्य अभिप्राय | ज्ञात्वा, अनन्तबलेन पादस्य वामाङ्गुष्ठाग्रं ईषत् चंपितम् । ततो मेरुपर्वतोऽकम्पत । तत्कम्पनेन च किं जातम् ?, तदाह पृथिवी कम्पिता १, पर्वतानां शृङ्गाणि त्रुटित्वा पतितानि २, समुद्राः क्षोभं प्राप्ताः ३, ब्रह्माण्डस्फोटसदृशः शब्दः प्रकटीबभूव ४, अप्सरसो भीतास्त्रस्ता खकीयपतिम्-आलिङ्गनं अकरोत् ५ । अत्र कवेरुत्प्रेक्षा-1 मेरुणा ज्ञातं "अहमसंख्यातानां तीर्थङ्कराणां मध्ये न केनापि तीर्थङ्करेण पूर्व स्पृष्टः। अथ चरमतीर्थकरेण पादाग्रेण स्पृष्टः ततो मम महान् प्रसादः कृतः, अहं निष्पापः पवित्रश्च कृतः, ततो हर्षप्रकर्षात् नृत्यति स्म" इति । अथ मेरुकंपने इन्द्रेण रुष्टेन विचारितम्-'अहो! केन पापिष्ठेन देवदानवभूतप्रेतराक्षसव्यन्तरादिना शान्तिकरणसमये उपद्रवः कृतः । ततोऽवधिज्ञानप्रयुञ्जनेन ज्ञातम्-'अहो! अहमज्ञानी, तीर्थङ्करास्तु बाल्यावस्थायां अपि अनन्तबला भवन्ति । ततः सौधर्मेन्द्रेण आदेशे दत्ते, पूर्वमच्युतेन्द्रेण समकालं कलशैः लानाभिषेको भगवतः कारितः । ततोऽनुपरिपाटीतः सर्वैरपि लानाभिषेकः कारितो यावचन्द्रसूर्यादयः । ततः ॥१०९॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy